________________
आगम
(१७)
प्रत
सूत्रांक
[ ७६ ]
दीप
अनुक्रम
[१०८]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृत [१२],
प्राभृतप्राभृत [-]
मूलं [ ७६ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
सूर्यप्रज्ञविवृत्तिः
( मल० )
॥२२३॥
Education Intera
पञ्चचत्वारिंशत् उत्तरभद्रपदाया इति शुध्यन्त्येकोनषष्ट्यधिकेन शतेनोत्तरभद्रपदान्तानि नक्षत्राणि, तथा त्रिषु नवोत्तरेषु शतेषु रोहिणिका - रोहिणिकान्तानि शुद्धयन्ति, तथाहि एकोनषष्ट्यधिकेन शतेनोत्तरभद्रपदान्तानि शुद्धयन्ति, ततस्त्रिंशता मुहते रेवती त्रिंशताऽश्विनी पञ्चदशभिर्भरणी त्रिंशता कृत्तिका पञ्चचत्वारिंशता रोहिणिकेति, तथा त्रिषु नवनवत्यधिकेषु तेषु पुनर्वसुः - पुनर्वस्वन्तानि शुद्ध्यन्ति तत्र त्रिभिः शतैर्नवोत्तरै रोहिणिका - रोहिणिकांतानि शुद्धयन्ति, ततस्त्रिंशता मुद्द मृगशिरः पञ्चदशभिरार्द्रा पंचचत्वारिंशता पुनर्वसुरिति, तथा पञ्च शतान्येकोनपञ्चाशानि - एकोनपञ्चाशदधिकानि उत्तरफाल्गुनी पर्यन्तानि, किमुक्तं भवति ? - पञ्चभिः शतैरेको नपञ्चाशदधिकेरुत्तरफाल्गुन्यन्तानि नक्षत्राणि शुद्धयन्ति, तथाहि - त्रिभिः शतैर्नवनवत्यधिकैः पुनर्वस्वन्तानि शुद्धयन्ति, ततस्त्रिंशता मुहूः पुण्यः पञ्चदशभिरश्लेषा त्रिंशता मघा त्रिंशता पूर्व फाल्गुनी पञ्चचत्वारिंशता उत्तरफाल्गुनीति तथा पट् शतान्ये कोन सप्तानि - एकोनसप्तत्यधिकानि विशाखानां विशा खापर्यन्तानां नक्षत्राणां शोध्यानि, तथाहि - उत्तरफाल्गुन्यन्तानां पञ्च शतान्येकोनपञ्चाशदधिकानि शोध्यानि, ततस्त्रिंशन्मुहूर्त्ता हतस्य त्रिंशत् चित्रायाः पञ्चदश स्वातेः पञ्चचत्वारिंशद्विशाखाया इति, तथा मूले-मूलनक्षत्रे शोध्यानि सप्तशतानि चतुश्चत्वारिंशदधिकानि ७४४, तत्र पट् शतान्येकोनसप्तत्यधिकानि ६६९ विशाखान्तानां नक्षत्राणां शोध्यानि, ततः त्रिंशन्मुहूर्त्ता अनुराधायाः पञ्चदश ज्येष्ठायास्त्रिंशन्मूलस्येति, तथा अष्टौ शतानि समाहृतानि अष्टशतमेकोनविंशत्यधिकं किमुक्तं भवति-अष्टौ शतान्येकोनविंशत्यधिकानि उत्तराषाढानां - उत्तराषाढान्तानां नक्षत्राणां शोधनकं, तथाहिमूलान्तानां नक्षत्राणां शोध्यानि सप्त शतानि चतुश्चत्वारिंशदधिकानि ७४४ तत्र त्रिंशन्मुहूर्त्ताः पूर्वाषाढा नक्षत्रस्य
For Penal Use On
~453~
१२ प्राभृते आवृत्तयः सू ७६
॥२२३॥
wor