________________
आगम
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः )
(१७)
प्राभूत [१०], ...................---- प्राभूतप्राभूत [२२], -------------------- मूलं [६४-६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[६४-६६]
5555453
दीप अनुक्रम [९५-९७]
देशे स्थितः सन् युनक्ति-परिसमापयति !, भगवानाह-'ता जंसि ण'मित्यादि, तत्र यस्मिन् देशे स्थितः सन् सूर्यश्चरमां-पाश्चात्ययुगवर्तिनी द्वापष्टितमां पौर्णमासी युनक्ति--परिसमापयति तस्मात् पौर्णमासीस्थानात्-वरमद्वाषष्टितमपी
मासीपरिसमाप्तिनिवन्धनात् स्थानात् परतो मण्डलं चतुर्विंश त्यधिकेन शतेन छित्त्वा-विभज्य तद्गतान् चतुर्नवति भागान् उपादाय सूर्यः प्रथमां पौर्णमासी परिसमापयति, किमत्र कारणमिति चेत्, उच्यते, इह परिपूर्णेषु त्रिंशदहोरात्रेषु परिसमासेषु सत्सु स एव सूर्यस्तस्मिन्नेव देशे वर्तमान प्राप्यते, न कतिपयभागन्यूनेषु, पौर्णमासी च चन्द्रमास-1 पर्यन्ते परिसमाप्तिमुपैति, चन्द्रमासस्य च परिमाणमेकोनत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वापष्टिभागास्ततविंशत्तमेऽहोरात्रे द्वात्रिंशति द्वापष्टिभागेषु गतेषु सूर्यश्चरमद्वाषष्टितमात् पौर्णमासीपरिसमाप्ठिनिबन्धनात् स्थानात | चतुर्नवती चतुर्विशत्यधिकशतभागेष्वतिकान्तेषु प्रथमां पौर्णमासी परिसमापयन्नवाप्यते, किमुक्तं भवति ।-त्रिंशता भागस्तमेव देशमप्राप्तः सन्नवाप्यते इति, त्रिंशतो द्वापष्टिभागानामहोरात्रसत्कानामधापि स्थितत्वात्, भूयः प्रश्नयति-ता एएसि ण'मित्यादि, ता इति तत्र युगे एतेषां पञ्चानां संवत्सराणां मध्ये द्वितीयां पौर्णमासी सूर्यः कस्मिन् देशे स्थितः सन् युक्ति-परिसमापयति ।, भगवामाह-'ता जंसि ण'मित्यादि, ता इति तत्र यस्मिन् देशे स्थितः सन् सूर्यः प्रथमा पौर्णमासी परिसमापयति तस्मात् पौर्णमासीस्थानात्-प्रथमात् पौर्णमासीपरिसमाप्तिनिवन्धनात् स्थानात् परतो मण्डलं चतुविशत्यधिकेन शतेन छित्त्वा तद्गतान् चतुर्नवतिभागान् उपादाय अत्र देशे स्थितः सन् सूर्यो द्वितीयां पौर्णमासी परिसमापयति एवं तृतीयपौर्णमासीविषयमपि सूत्रं कर्त्तव्यं, एवं द्वादशपौर्णमासीविषयमपि, नवरं 'अहछत्ताले भाग
RRBAR
34
~372~