SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [ ५६ ] दीप अनुक्रम [८] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [१०], प्राभृतप्राभृत [२०], मूलं [ ५६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः स्वार्द्धं क्रियते, कृत्वा च त्रिंशता गुण्यते, गुणयित्वा च द्वापट्या भज्यते, भक्ते सति यल्लब्धं तान् मुहूर्त्तान् जानीहि, लब्धशेषं मुहर्त्तभागान् तत एवं स्वशिष्येभ्यः प्ररूपय, तद्विवक्षितं पर्व चश्मे अहोरात्रे सूर्योदयात्तावत्सु मुहूर्त्तेषु तावत्सु च मुहूर्त्तभागेषु अतिक्रान्तेषु परिसमाप्तमिति, एष करणगाथाक्षरार्थः । भावना त्वियम् प्रथमं पर्व घरमेऽहोरात्रे कति मुहर्त्तानतिक्रम्य समाप्तमिति जिज्ञासायामेको प्रियते, अयं किल कल्योजी राशिरित्यत्र त्रिनवतिः प्रक्षिप्यते, जाता चतुर्नवतिः, अस्य चतुर्विंशत्यधिकेन शतेन भागो हर्त्तव्यः, स च भागो न लभ्यते राशेः स्तोकत्वात्, ततो यथासम्भवं करणलक्षणं कर्त्तव्यं, तत्र चतुर्नवतेरर्द्ध क्रियते, जाता सप्तचत्वारिंशत् ४७, सा त्रिंशता गुण्यते, जातानि चतुर्दश शतानि दशोत्तराणि १४१०, तेषां द्वाषष्ट्या भागो हियते, लब्धा द्वाविंशतिर्मुहर्त्ता २२, शेषा तिष्ठति षट्चत्वारिंशत् ४६, तत द्यच्छेदकराश्योरर्द्धनापवर्त्तना, लब्धास्त्रयोविंशतिरेकत्रिंशद्भागाः ३३, आगतं प्रथमं पर्व चरमे अहोरात्रे द्वाविंशतिं मुहूर्त्तान् एकस्य च मुहूर्त्तस्य त्रयोविंशतिमेकत्रिंशद्भागानतिक्रम्य समाप्तिं गतमिति । द्वितीयपर्वजिज्ञासायां द्विको प्रियते, स किल द्वापरयुग्मराशिरिति द्वाषष्टिः प्रक्षिप्यते, जाता चतुःषष्टिः, सा च चतुर्विंशत्यधिकस्य शतस्य भार्ग न प्रयच्छति ततस्तस्यार्द्धं क्रियते, जाता द्वात्रिंशत् सा त्रिंशता गुण्यते, जातानि नव शतानि षष्यधिकानि ९६०, तेषां द्वापट्या भागो हियते, लब्धाः पञ्चदश मुहूर्त्ताः १५, पश्चादवतिष्ठते त्रिंशत्, ततञ्छेद्यच्छेदकर। श्योर नापवर्त्तना, लब्धाः पञ्चदश एकत्रिंशद्भागाः १५, आगतं द्वितीयं पर्व चरमेऽहोरात्रे पञ्चदश मुहूर्त्तानेकस्य च मुहूर्त्तस्य पञ्चदश एकत्रिंशद्धागानतिक्रम्य [ द्वितीयं पर्व ] समाप्तमिति । तृतीयपर्वजिज्ञासायां त्रिको प्रियते, स किल तीजोराशिरिति तत्रैकत्रिंशत् Education International For Parts Only ~342~ wor
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy