SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], ------------------- प्राभृतप्राभृत [२०], --------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६] दीप पुष्यः ६२, एतदुपसंहारमाह-एतानि नक्षत्राणि युगस्य पूर्वार्दै यानि द्वाषष्टिसङ्ग्यानि पर्वाणि तेषु क्रमेण वेदितव्यानि, एवं प्रागुक्तकरणवशादुत्तराद्देऽपि द्वाषष्टिसङ्ख्येषु पर्वस्ववगन्तव्यानि । सम्प्रति कस्मिन् सूर्यमण्डले किं पर्व समाप्ति यातीति चिन्तायां यत्पूर्वाचार्यैरुपदर्शितं करणं तदभिधीयते-"सूरस्सवि नायबो सगेण अयणेण मंडलविभागो । अयणमि । जे दिवसा स्वहिए मंडळे हवइ ॥१॥" अस्या व्याख्या-सूर्यस्यापि पर्व विषयो मण्डलविभागो ज्ञातव्यः स्वकीयेनायनेन, किमुक्तं भवति ।-सूर्यस्य स्वकीयमयनमपेक्ष्य तस्मिन् तस्मिन् मण्डले तस्य तस्य पर्वणः परिसमाप्तिरवधारणीयेति, तत्र अयने शोधिते सति ये दिवसा उद्धरिता वर्तन्ते तत्सये रूपाधिके मण्डले तदीप्सितं पर्व परिसमा भवतीति वेदितव्यं, एषा करणगाथाऽक्षरघटना, भावार्थस्त्वयम्-इह यत्पर्व कस्मिन् मण्डले समाप्तमिति ज्ञातुमिष्यते तत्समया प्रियते. धृत्वा च पञ्चदशभिर्गुण्यते, गुणयित्वा च रूपाधिका क्रियते, ततः सम्भवन्तोऽवमरात्राः पात्यन्ते, ततो यदि व्यशीत्यधिकेन शतेन भागः पतति तर्हि भागे हते यलब्धं तान्ययनानि ज्ञातव्यानि, केवलं या पश्चादिवससमयाऽवतिष्ठते तदन्तिमे मण्डले विवक्षितं पर्व समाप्तमित्यवसेयं, उत्तरायणे वर्तमाने बाह्य मण्डलमादिः कर्त्तव्यं दक्षिणायने च सों-15 भ्यन्तरमिति । सम्प्रति भावना क्रियते-ततः कोऽपि पृच्छति-कस्मिन् मण्डले स्थितः सूर्यो युगे प्रथम पर्व समापयतीति, इह प्रथमं पर्व पृष्टमित्येकको ध्रियते, स पञ्चदशभिर्गुण्यते, जाताः पञ्चदश, अत्रैकोऽप्यवमरात्री न सम्भवतीति न किमपि पात्यते, ते च पश्चदश रूपाधिकाः क्रियन्ते, जाता षोडश, युगादौ च प्रथम पर्व दक्षिणायने, तत आगतं सर्वाभ्यन्तरमण्डलमादिं कृत्वा पोडो मण्डले प्रधर्म पर्व परिसमाप्तमिति । तथाऽपरः पृच्छति-चतुर्थ पर्व कस्मिन् मण्डले परिसमामो अनुक्रम [८१] ~328~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy