SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [५२] दीप अनुक्रम [७५] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [१०], प्राभृतप्राभृत [१८], मूलं [५२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः सूर्यप्रज्ञतिवृत्तिः ( मख० ) ॥१५२॥ प्रश्नसूत्रमाह- 'ता कहं ते इत्यादि, ता इति प्राग्वत्, कथं ? -केन प्रकारेण, कया साया इत्यर्थः, त्वया भगवन् ! चन्द्रधारा आख्याता इति वदेत्, भगवानाह - 'ता पंचे' त्यादि, ता इति पूर्ववत्, पञ्चसांवत्सरिके - चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धित रूपंपञ्च संवत्सरप्रमाणे णमिति वाक्यालङ्कारे युगे अभिजिन्नक्षत्रं सप्तषष्टिं चारान् यावत् चन्द्रेण सार्द्धं योगं युनक्ति - योगमुपपद्यते, किमुक्तं भवति !-चन्द्रोऽभिजिनक्षत्रेण सह संयुक्तो युगमध्ये सप्तषष्टिसङ्ख्यान् चारान् चरतीति कथमेतदवसीयते इति चेत्, उच्यते, इह योगमधिकृत्य सकलनक्षत्रमण्डली परिसमातिरेकेन नक्षत्रमासेन भवति, नक्षमासाश्च युगमध्ये सप्तषष्टिरेतच्चाग्रे भावयिष्यते ततः प्रतिनक्षत्रपर्याय मेकैकं चारमभिजिता नक्षत्रेण सह चन्द्रस्य योगसम्भवादुपपद्यते चन्द्रोऽभिजिता नक्षत्रेण सह संयुक्तो युगमध्ये सप्तषष्टिसान् चारान् चरतीति एवं प्रतिनक्षत्रं भावनीयं । सम्प्रति आदित्यचारविषयं प्रश्नसूत्रमाह- 'ता कहं ते' इत्यादि, ता इति प्राग्वत्, कथं किंप्रमाणया साया भगवन् ! त्वया आदित्यचारा आख्याता इति वदेत् ?, भगवानाह - 'पंच संवच्छरिए ण' मित्यादि, ता इति पूर्ववत्, पञ्चसांवत्सरिके-चन्द्रादिपञ्चसंवत्सरप्रमाणे युगे युगमध्येऽभिजिन्नक्षत्रं पञ्च चारान् यावत् सूर्येण सह योगं युनक्ति, | अत्राप्ययं भावार्थ:- अभिजिता नक्षत्रेण संयुक्तः सूर्यो युगमध्ये पञ्चसङ्ख्यान् चारान् चरति, कथमेतदवगम्यते इति चेत्, उच्यते, इह योगमधिकृत्य सूर्यस्य सकलनक्षत्रमण्डली परिसमाप्तिरेकेन सूर्यसंवत्सरेण, सूर्यसंवत्सराश्च युगे भवन्ति पश्च, ततः प्रतिनक्षत्रपर्यायमेकैकं वारमभिजिता नक्षत्रेण सह योगस्य सम्भवात् घटतेऽभिजिता नक्षत्रेण सह संयुक्तः सूर्यो Education internationa For Penal Use Only ~311~ १० प्राभृते १८ प्राभूतप्राभूते चाराः ५२ ॥१५२॥
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy