________________
आगम
(१७)
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [१], -------------------- प्राभूतप्राभूत [१], --------- ------ मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
LOCAL
प्रत
सूत्राक
७)
दीप
श्रद्धा प्रवर्तत इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थ, तथाहि-कथं प्रवृत्तश्रद्धः?, उच्यते यत उत्पन्नश्रद्ध'इति, हेतुत्वप्रदर्शनं चोपपन्न, तस्य काव्यालङ्कारत्वात् , यथा 'प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरी'मित्यत्र यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करचमवगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीप्तत्वादेहेतुतयोपन्यस्तमिति समीचीनं, 'उप्पन्नसहे| उप्पन्नसंसए''उप्पन्नकोउहल्ले' इति प्राग्वत्, तथा संजायसहे'इत्यादि पदपदं प्राग्वत्,नवरमिह सम्शब्दः प्रकर्षादिव-12 चनो वेदितव्यः, तत 'उट्ठाए उद्वेइ' इति उत्थानमुत्था ऊर्व-वर्तनं तया उत्तिष्ठति, इह 'उद्वेई' इत्युक्त क्रियारम्भमानमपि प्रतीयते यथा वक्तुमुत्तिष्ठते ततस्तद्व्यवच्छेदार्थमुत्थयेत्युक्तम्, 'जेणेवे'त्यादि प्राकृतौलीवशादव्ययत्वाच्च येनेति यस्मिन्नित्यर्थे द्रष्टव्यं, यस्मिन् दिग्भागे श्रमणो भगवान महावीरो वर्तते 'तेणेच'त्ति तस्मिन् दिग्भागे उपागच्छति, इह वर्तमानकालनिर्देशस्तकालापेक्षया उपागमनक्रियाया वर्तमानत्वात् , परमार्थतस्तूपागतवानिति द्रष्टव्य, उपागम्य च
श्रमणं भगवन्तं महावीरं कर्मतापन्नं विकृत्व-त्रीन् बारान् आदक्षिणप्रदक्षिणं करोति, आदक्षिणात्-दक्षिणहस्तादा-8 भरभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणः तं करोति, कृत्वा वन्दते-स्तौति नमस्यत्ति-कायेन प्रण
मति, वन्दित्वा नमस्थित्वा च 'न'नैव अत्यासन्नोऽतिनिकटः अवग्रहपरिहारात् अथवा नात्यासन्नस्थाने वर्तमान इति गम्यं, तथा 'न' नैवातिदूरोऽतिविप्रकृष्टोऽनौचित्यपरिहारात्, अथवा नातिदूरे स्थाने 'सुस्सूसमाणे'त्ति भगवचनानि श्रोतुमिच्छन्, 'अभिमुत्ति अभि-भगवन्तं प्रति मुखमस्येत्यभिमुखः 'विणयेण'त्ति विनयेन हेतुना 'पंजलियडे'त्ति प्रकृष्ट:-प्रधानो ललाटतटघटितत्वेन अञ्जलि:-हस्तन्यासविशेषः कृतो-विहितो येन स प्राञ्जलिकृतः, भार्योढादेराकृतिग-18 णतया कृतशब्दस्य परनिपात: 'पज्जुवासेमाणे इति पर्युपासीन:-सेवमान:, अनेन विशेषणकदंबकेन श्रवणविधिरूपदर्शितः, उक्तं च "निहाविगहापरिवज्जिएहिं गत्तेहिं पञ्जलिउडेहिं भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयव्वं ||१|| इति, 'एवं वदासि' त्ति एवं-वक्ष्यमाण प्रकारेण मुहूर्तवृद्धिअपवृद्धि वक्तव्यता विषयं प्रश्नं अवादीत् उक्तवान् ।
अनुक्रम [२१]
645-4-580-%A8
~ 24~