SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [७] दीप अनुक्रम [२१] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्तिः) प्राभृत [१], प्राभृतप्राभृत [१], मूलं [७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः गोसेणं सन्तुस्सेहे समजउरंससंठाणसंठिए वारिसमारायसंघयणे जाव एवं वयासी' इति, तस्मिन् काले तस्मिन् समये, शब्दो वाक्यालङ्कारार्थः, श्रमणस्य भगवतो महावीरस्य ज्येष्ठ इति प्रथमः, अन्तेवासी शिष्यः अनेन पदद्वयेन तस्य सकलसङ्गाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापितृकृतनामधेयः, नामेति प्राकृतत्वात् विभक्तिप रिणामेन नाम्नेति द्रष्टव्यं, अन्तेवासी च किल विवक्षया श्रावकोऽपि स्यात् अतस्तदाशङ्काव्यवच्छेदार्थमाह-'अनगारः' न विद्यते अगारं - गृहमस्येत्यनगारः, अयं च विगीतगोत्रोऽपि स्यादत आह-गौतमो गोत्रेण गौतमाहयगोत्रसमन्वित इत्यर्थः, अयं च तत्कालोचितदेह परिमाणापेक्षया न्यूनाधिकदेहोऽपि स्वादत आह-'सतोत्सेधः' सप्तहस्तप्रमाणशरीरोहायः, अयं चेत्थंभूतो लक्षणहीनोऽपि सम्भाच्येत अतस्तदाशङ्कापनोदार्थमाह-'समचतुरस्त्रसंस्थानसंस्थितः समाः-शरीलक्षणशास्त्रोक प्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत्समचतुरस्रं, अनयस्त्विह चतुर्दिगविभागोपलक्षिताः शरीरा वयवा द्रष्टव्याः, अन्ये त्वाहुः - समा-अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यत्र तत्समचतुरस्रं, अश्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं १ आसनस्य ललाटोपरिभागस्य चान्तरं २ दक्षिणस्कन्धस्य वामजानुनश्चान्तरं ३ वामस्कन्धस्य दक्षिणजानुनश्चान्तर ४ मिति, अपरे स्वाहुः- विस्तारोत्सेधयोः समत्वात् समचतुरस्रं तच्च तत्संस्थानं च २ संस्थानं - आकारस्तेन संस्थितो- व्यवस्थितो यः स तथा, अयं च हीनसंहननोऽपि केनचित्सम्भाध्येत तत आह- 'वज्ररिसहनाराय संघयणे' नाराचं-उभयतो मर्कटबन्धः ऋषभः- तदुपरिवेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य स तथा, 'एवं जाव व्यासी' इति, यावच्छन्दोपादानादिदमनुक्तमप्यवसेयं-'कणगपुल गनिघसपम्हगोरे उग्गतवे दित्ततवे Eaton intentiona इन्द्रभूतिगौतमस्य वर्णनं For Parts Only ~20~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy