________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत -, -------- ----- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[३१]
दीप
'ता कहकडं तेइत्यादि, ता इति पूर्ववत्, कतिकाष्ठां-किंप्रमाणां भगवन् ! त्वया सूर्यः पौरुषीच्छायां निवर्तयन्ना-II ख्यात इति वदेत् , एवमुके भगवान् प्रथमतो लेश्यास्वरूप विषये यावन्त्यः परतीथिकानां प्रतिपत्तयस्तावतीरुपदर्शयति-तत्थ खल इत्यादि, तत्र-तस्यां पौरुभ्यां छायायां विषये लेश्यामधिकृत्य खल्विमाः पञ्चविंशतिः प्रतिपत्तयः प्रज्ञप्ता, तद्यथा-तत्र-तेषां पञ्चविंशतेः परतीथिकानां मध्ये एके एवमाहुः-ता इति पूर्ववत् , अनुसमयमेव-प्रतिक्षणमेव सूर्यः पौरुपीछायां, इह लेश्यावशतः पौरुषीछाया भवतीति ततः कारणे कार्योपचारात् पौरुषीछायेति लेश्या द्रष्टव्या, तां निवर्तयति निवर्तयन्नाख्यात इति वदेत् , किमुक्तं भवति -प्रतिक्षणमन्यामन्यां सूर्यो लेश्यां निवर्तयन् आख्यात इति वदेत्, अत्रोपसंहारः-'एगे एवमाहंसु, 'एवमित्यादि, एवं-उक्तेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन सूर्यपाठगमेन या एव ओजःसंस्थितौ पञ्चविंशतिः प्रतिपत्तयः उक्ताः ता एव क्रमेणात्रापि नेतन्याः, तावद्यावच्चरमप्रतिपत्तिप्रतिपादकमिदं सूत्र-'एगे पुण एवमाहंसु-ता अणु-ओसप्पिणिउस्सप्पिणिमेव सूरिप'इत्यादि, मध्यमास्त्वालापका एवं ज्ञातव्या'एगे पुण एवमाहंसु ता अणुमुहुर्तमेव सूरिए पोरिसिच्छायं निवत्तेइ आहियत्ति वएज्जा 'एगे एवमाहेसु' इत्यादि, तदेवं लेश्याविषयाः परप्रतिपत्तीरुपदर्य सम्प्रति तद्विषयं स्वमतमाह-'वयं पुण' इत्यादि, वयं पुनरेवं वदामः, कथमित्याह'ता सूरियस्स णमित्यादि, ता इति पूर्ववत् , सूर्यस्य णमिति वाक्यालङ्कारे उच्चत्वं लेश्यां च प्रतीत्य छायोद्देशः, किमुक्तं | भवति !-यथा सूर्य उचैरुचस्तरामधिरोहति यथा च मध्याह्लादूर्व नीचैस्तरामतिकामति एतदपि लौकिकव्यवहारापेक्षया उच्यते, लौकिका हि प्रथमतो दूरतरवर्तिनं सूर्य उदयमानमतिनीचैस्तरां पश्यन्ति, ततः प्रत्यासन्नं प्रत्यासन्नतरं
अनुक्रम
[४५]
A
~ 198~