SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [२९] दीप अनुक्रम [४३] चन्द्रप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः) प्राभृत [८], प्राभृतप्राभृत [-] मूलं [२९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः सूर्यज्ञतिवृत्तिः ( मल० ) ॥ ८८ ॥ से यदा चोत्तरार्द्धं द्वादशमुहूर्ता रात्रिर्भवति तदा दक्षिणार्थे द्वादशमुहूर्तानन्तरो दिवसो भवति) यदा चोत्तरार्द्धे द्वादशमुहूर्त्ता५ नन्तरो दिवसो भवति तदा दक्षिणा द्वादशमुहर्त्ता रात्रिः, तदा चाष्टादश मुहूर्त्तानन्तरादिदिवस काले जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य ' पुरच्छिमपञ्चत्थिमे णं' ति पूर्वस्यां पश्चिमायां च दिशि नैवास्त्येतत् यदुत पञ्चदशमुहर्त्ता दिवसो भवति, नाप्यस्येतत् यथा पञ्चदशमुहर्त्ता रात्रिर्भवतीति, कुत इत्याह-'वोच्छिन्ना णमित्यादि, व्यवच्छिन्नानि णमिति वाक्वाकारे खलु तत्र मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां च दिशि रात्रिन्दिवानि प्रज्ञतानि, हे श्रमण ! हे आयुष्मन् !, अत्रैवोपसंहारः 'एगे एवमाहंसु ३' एताश्च तिस्रोऽपि प्रतिपत्तयो मिथ्यारूपाः, भगवतोऽननुमतत्वात्, अपिच-ये तृतीया वादिनः सदैव रात्रिं द्वादशमुहूर्त्त प्रमाणामिच्छन्ति तेषां प्रत्यक्षविरोधः, प्रत्यक्षत एवं हीनाधिकरूपाया रात्रेरुपलभ्यमानत्वात् । सम्मति स्वमतं भगवानुपदर्शयति- 'वयं पुण' इत्यादि, वयं पुनरेवं वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-'ता जंबुद्दीवे दीवे' इत्यादि, 'ता' इति पूर्ववत् जम्बूद्वीपे २ सूर्यो यथायोगं मण्डलपरिभ्रम्या भ्रमन्तौ मेरोरुदकप्राच्यां-उत्तरपूर्वस्यां दिशि उद्गच्छतः, तत्र चोद्गत्य प्राग्दक्षिणस्यां - दक्षिणपूर्वस्यामागच्छतः, ततो भरतादिक्षेत्रापेक्षया प्राग्दक्षिणस्यां दक्षिणपूर्वस्यामुद्गत्य दक्षिणापायां-दक्षिणापरस्यामागच्छतस्तत्रापि च दक्षिणापरस्याम परविदेहक्षेत्रापेक्षया उद्गत्यापागुदीच्यां अपरोत्तरस्यामागच्छतः, तत्रापि चापरोत्तरस्यामैरावतादिक्षेत्रापेक्षया उद्गस्य उदक्प्राच्यां - उत्तरपूर्वस्यामागच्छतः, एवं तावत्सामान्यतो द्वयोरपि सूर्ययोरुदयविधिरुपदर्शितो, विशेषतः पुनरयं यदैकः सूर्यः पूर्वदक्षिणस्यामुद्गच्छति तदा अपरोऽपरोत्तरस्यां दिशि समुद्गच्छति, दक्षिणपूर्वोङ्गतश्च सूर्यो भरतादीनि क्षेत्राणि मेरुदक्षिणदिग्वसनि मण्डलभ्रम्या ४ Education International For Parts Only ~ 183~ ८ प्राभृते उदयसंस्थितिः सू २९ ॥ ८८ ॥
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy