________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [६], ------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
सूर्यप्रज्ञप्तिवृत्तिः
प्रत
(मला
सूत्रांक [२७]
स्थितिप्राभुते सू२७
१०८२॥
दीप
646454552
तरं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा एकेन रात्रिन्दिवेन सर्वाभ्यन्तरमण्डलगतेन प्रथमक्षणादूर्व शनैः शनैः कलामात्रकलामात्रहापननाहोरात्रपर्यन्ते एक भागमोजसः-प्रकाशस्य दिवसक्षेत्रगतस्य निर्वेष्य-हापयित्वा तमेव चैक भागं रजनिक्षेत्रस्याभिवर्द्धयित्वा चारं चरति, कियत्प्रमाणं पुनर्भागं दिवसक्षेत्रगतस्य प्रकाशस्य हापयित्वा रजनिक्षेत्रस्य वर्द्धयित्वा ?, तत आह-मण्डलमष्टादशभित्रिंशः-त्रिंशदधिकैः शतैश्छित्त्वा, किमुक्तं भवति ?-द्वितीयं मण्डलमष्टादशभिस्त्रिंशदधिकैर्भागशतैविभग्य तत्सत्कमेक भागमिति, कस्मात्पुनर्मण्डलस्याष्टादश शतानि त्रिंशदधिकानि भागानां परिकल्प्यन्ते !, उच्यते, इह एकैकं मण्डलं द्वाभ्यां सूर्याभ्यां एकेनाहोरात्रेण भ्रम्या पूर्यते, अहोरात्रश्च त्रिंशन्मुहर्तप्रमाणः, प्रतिसूर्य चाहोरात्रगणने परमार्थतो द्वावहोरात्रौ भवतः, द्वयोश्चाहोरात्रयोः पष्टिर्मुहर्ताः, ततो मण्डलं प्रथमतः पथ्या भागैविभज्यते, निष्कामन्तौ च सूर्यो प्रत्यहोरात्रं प्रत्येकं द्वौ द्वौ मुहूर्तेकषष्टिभागौ हापयतः प्रविशन्तौ चाभिवर्धयतः, यौ च द्वौ मुहूत्कषष्टिभागौ तौ समुदितावेकः सार्द्धत्रिंशत्तमो भागः, ततः षष्टिरपि भागाः सार्द्धया त्रिंशता गुण्यन्ते, जातान्यष्टादश शतानि त्रिंशताऽधिकानि च भागानां, एवं निष्क्रामन् सूर्यः प्रतिमण्डलं त्रिंशदधिकाष्टादशशतसयानां भागानां सत्कमेकैकं भागं दिवसक्षेत्रगतस्य प्रकाशस्य हापयन् रजनिक्षेत्रस्याभिवर्द्धयन् ' तावद्वक्तव्यः यावत्सर्वबाह्ये मण्डले व्यशीत्यधिक भागशतं दिवसक्षेत्रगतस्य प्रकाशस्य हापयिता रजनिक्षेत्रस्य चाभिवर्द्धयिता भवति, त्र्यशीत्यधिक च भागशतमष्टादशशतानां त्रिंशदधिकानां दशमो भागः, ततः 'सर्वाभ्यन्तरान्मण्डलात् सर्वधार्थी मण्डले जम्बूद्वीपचक्रवाल दशभागस्खुव्यति रजनिक्षेत्रस्याभिवर्द्धते' इति यत्मागभिहितं तदपि समीचीनं जातमिति, एवमभ्यन्तरं प्रविशन |
अनुक्रम [४१]
~ 171~