SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ आगम (१७) “चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१], --------- ---------- प्राभृतप्राभृत [१], -- --------- मूलं [१] + गाथा: ||१-५|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१] ||१-५|| कस्मिन् सूर्यस्य प्रतिहता लेश्येति ५, षष्ठे 'क' केन प्रकारेण किं सर्वकालमेकरूपावस्थायितया उत्तान्यथा ओजस:-प्रकाशस्य संस्थितिः-अवस्थानमिति ६, सप्तमे के पुद्गलाः सूर्य वरयन्ति-सूर्यलेश्यासंसृष्टा भवन्तीति ७, अष्टमे 'कथं केन प्रकारेण भगवन् ! 'ते'. तव मतेन सूर्यस्योदयसंस्थितिः८, नवमे कतिकाष्ठा-किंप्रमाणा पौरुषीच्छाया ९, दशमे योग इति वस्तु किं 'ते' त्वया भगवताऽऽख्यातमिति १०, एकादशे कस्ते-तव मतेन संवत्सराणामादिरिति ११, द्वादशे कति संवत्सरा इति १२, त्रयोदशे 'कथं' केन प्रकारेण चन्द्रमसो वृद्धि:-वृद्धिप्रतिभासः, उपलक्षणमेतत्तेन वृद्ध्यवृद्धिप्रतिभास इत्यर्थः १३, चतुर्दशे 'कदा कस्मिन् काले 'ते' तव मतेन चन्द्रमसो ज्योत्स्ना बहु-प्रभूतेति, १४, पञ्चदशे कश्चन्द्रादीनां मध्ये शीघ्रगतिरुक्क इति १५, पोडशे किं ज्योत्स्नालक्षणमिति वक्तव्यं १५, सप्तदशे चन्द्रादीनां च्यवनमुपपातश्च स्वमतपरमतापेक्षया वक्तव्यः १७, अष्टादशे चन्द्रादीनां समतलाभागादूर्वमुञ्चत्वं-यावति प्रदेशे व्यवस्थितत्वं तत्स्वमतपरमतापेक्षया प्रतिपाद्य १८, एकोनविंशतितमे कति सूर्या जम्बूद्वीपादावाख्याता इत्यभिधेयं १९, विंशतितमे कोऽनुभावश्चन्द्रादीनामिति २०॥ एवमनन्तरोक्तेन प्रकारेण एतानि अनन्तरोदितार्थाधिकारोपेतानि विंशतिः प्राभृतान्यस्यां सूर्यप्रज्ञप्तौ वक्तव्यानि, अथ प्राभृतमिति कः शब्दार्थः १, उच्यते, इह प्राभृतं नाम लोकप्रसिद्धं यदभीष्टाय देशकालोचितं दुर्लभ वस्तु परिणामसुन्दरमुपनीयते, प्रकर्षणासमन्ताद् भ्रियते-पोष्यते चित्तमभीष्टस्य पुरुपस्यानेनेति प्राभृतमिति व्युत्पत्तेः, 'कृहहुल'मिति वचनाच करणे कप्रत्यया, विवक्षिता अपि च ग्रन्थपद्धतयः परम| दुर्लभाः परिणामसुन्दराश्चाभीष्टेभ्यो-विनयादिगुणकलितेभ्यः शिष्येभ्यो देशकालौचित्येनोपनीयन्ते, ततः प्राभृतानीव दीप अनुक्रम [५-९] FOPATIBETathwonte ~ 10~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy