________________
आगम
(१७)
प्रत
सूत्रांक
[२१]
दीप
अनुक्रम [३५]
चन्द्रप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः)
प्राभृत [२],
प्राभृतप्राभृत [१],
मूलं [२१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
त्यर्थः, भूयश्च प्राचीनापाचीनायतया उदीच्यदक्षिणायतया प्रत्यक्षया - दवरिकयेत्यर्थः, तन्मण्डलं चतुर्भिर्भागैर्विभज्य दक्षिणपौरस्त्य उत्तरपश्चिमे च चतुर्भागमण्डले-मण्डल चतुर्भागे एकत्रिंशद्भागप्रमाणे, एतावति किल चतुरशीत्यधिकमपि | मण्डलशतं सूर्यस्योदये प्राप्यते इति 'चडवीसेणं सरणं हित्ता चउभागमंडलंसी त्युक्तं, अस्याः - प्रत्यक्षत उपलभ्यमानाया रक्तप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वमष्टौ योजनशतान्युत्प्लुत्य - बुद्ध्या गत्वा अत्रान्तरे प्रातद्व सूर्यादुत्तिष्ठतः - उद्गच्छतः, दक्षिणपौरस्त्यमण्डलचतुर्भागे भारतः सूर्य उद्गच्छति अपरोत्तरस्मिन् मण्डलचतुर्भागे ऐरावतः सूर्यः, तौ चैवमुद्गतौ भरतैरावतसूर्यौ यथाक्रममिमौ दक्षिणोत्तरौ जम्बूद्वीपभागौ तिर्यकुरुतः किमुक्तं भवति : - भारतः सूर्यो दक्षिणपौरस्त्यमण्डल चतुर्भागे उद्गतः सन् तिर्यक् परिभ्रमति तिर्यक् परिभ्रमन् मेरोर्दक्षिणभागं प्रकाशयति, ऐरावतः पुनः सूर्योऽपरोत्तरदिग्विभागे उद्गच्छति स चोद्गतः सन् तिर्यक् परिभ्रमन् मेरोरुत्तरभागं प्रकाशयतीति, इत्थं च भारतैरावतसूर्यौ यदा मेरोर्दक्षिणोत्तरी जम्बूद्वीपभागौ तिर्यकुरुतः तदैव सौ पूर्वपश्चिमी जम्बूद्वीपभागौ रात्रौ कुरुतः, एकोऽपि सूर्यस्तदा पूर्वभागं पश्चिमभागं वा न प्रकाशयतीत्यर्थः, दक्षिणोत्तरौ च भागो तिर्यकृत्वा ताविमौ पूर्वपश्चिम जम्बूद्वीपभागौ तिर्यकुरुतः, इयमन्त्र भावना - ऐरावतः सूर्यो मेरोरुत्तरभागे तिर्यक् परिभ्रम्य तदनन्तरं मेरोरेव पूर्वस्यां दिशि तिर्यक परिभ्रमति, भारतः सूर्यो मेरोर्दक्षिणतस्तिर्यक परिभ्रम्य तदनन्तरं मेरोः पश्चिमे भागे तिर्यक परिभ्रमतीति, इत्थं च यदा ऐरावतभारती सूर्यौ यथाक्रमं पूर्वपश्चिमभागौ तिर्यक् कुरुतस्तदैव दक्षिणोत्तरौ जम्बूद्वीपभागौ रात्रौ कुरुतः, एकोऽपि सूर्यस्तदा दक्षिणभागं उत्तरभागं वा न प्रकाशयतीति भावः, तत इत्थं यथाक्रममैरावत
Ja Eucation International
For Parts On
~102~