________________
आगम
(१६)
प्रत
सूत्रांक
[६१-६२]
दीप
अनुक्रम [८८-८९]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः )
प्राभृतप्राभृत [२२],
मूलं [६१-६२]
आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित..
द्रष्टव्यं 'दो रोहिणी दो पुणबसू दो उत्तरफग्गुणी दो बिसाहा दो उत्तरासाढा' इति, एतानि हि नक्षत्राणि वर्द्धक्षेत्राणि ततः सप्तषष्टिखण्डीकृत स्याहोरात्रगम्यस्य क्षेत्रस्य सत्काश्चन्द्रयोगयोग्या भागाः शतमेकमर्द्ध च प्रत्येकमवगन्तव्याः, तत्र शतं त्रिंशता गुण्यते, जातानि त्रीणि सहस्राणि अर्द्धमपि विंशता गुणयित्वा द्वाभ्यां विभज्यते लब्धाः पञ्चदशेति । 'ना एएसि णमित्यादि, ता इति तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये किं नक्षत्रं यत् सदा प्रातरेव चन्द्रेण सार्द्धं योगं युनक्ति १, किं नक्षत्रं यत्सदा सायं-दिवसावसानसमये चन्द्रेण सार्द्ध योगं युनक्ति, किं तन्नक्षत्रं यत्सदा द्विधा - प्रातः सायं
समये प्रविश्य २ चन्द्रेण सार्द्धं योगं युनक्ति १, भगवानाह - 'ता एएसि णमित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये न किमपि तनक्षत्रमस्ति यत्सदा प्रातरेव चन्द्रेण सार्द्धं योगं युनक्ति, किं सर्वथा नेत्याह-'नक्षत्थे'त्यादि, नेति प्रतिषेधोऽन्यत्र द्वाभ्यामभिजिद्द्भ्यामवसेयः, कस्मादित्याह - 'ता एएसि णमित्यादि ता इति तत्र तेषां षट्क्याशतो नक्षत्राणां मध्ये एते-अनन्तरोदिते द्वे अभिजिती- अभिजिन्नक्षत्रे युगे युगे प्रातरेव प्रातरेव चतुश्चत्वारिंशत्तमाममावास्यां चन्द्रेण सह योगमुपगम्य युक्तः -परिसमापयतः, नो चैव पौर्णमासी, अथ कथमेतदवसीयते, यथा युगे युगे चतुचत्वारिंशत्तमा २ ममावास्यां सदेव प्रातः समये अभिजिनक्षत्रं चन्द्रेण सार्द्धं योगमुपागभ्य परिसमापयतीति १, उच्यते, पूर्वाचार्योपदर्शित करणवशात्, तथाहि तिथ्यानयनार्थं तावत्करणमिदं- 'तिहिरासिमेव बावट्टिभाइया सेसमेगसद्विगुणणं च। बावडीऍ विभतं सेसा अंसा तिहिसमती ॥ १ ॥" अस्या अक्षरगम निका-ये युगमध्ये चन्द्रमासा अतिक्रान्तास्ते तिथिराश्यानयनार्थे त्रिंशता गुण्यन्ते, गुणयित्वा च तस्य राशेर्भागो द्वापष्ट्या हियते, हृते च भागे यदवतिष्ठते तस्मिन्नेकषष्ठ्या
Education Internation
For Parts Only
~362~