SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२९३] दीप अनुक्रम [ ५४० ] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) मूलं [ २९३] उद्देशक: [२], दारं [-], ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [२३], मुनि दीपरत्नसागरेण संकलित.. Education Internation वृत्तिगम्यं शुभात्मपरिणामरूपं तन्मोहयतीति चारित्रमोहनीयं चशब्दौ खगतानेकभेदसुचकौ दर्शन मोहनीयं त्रिविधं तद्यथा सम्यक्त्ववेदनीयं मिध्यात्ववेदनीयं मिश्रवेदनीयं तत्र जिनप्रणीततत्त्वश्रद्धानात्मकेन सम्यक्त्वरूपेण यद्वेद्यते तत्सम्यक्त्ववेदनीयं यत्पुनर्जिन प्रणीततत्त्वा श्रद्धानात्मकेन मिध्यात्वरूपेण वैद्यते तन्मिथ्यात्ववेदनीयं, यत्तु मिश्ररूपेण - जिनप्रणीततस्त्रेषु न श्रद्धानं नापि निन्देत्येवंलक्षणेन वेद्यते तन्मिश्रवेदनीयं, आह-सम्यक्त्व वेदनीयं कथं दर्शनमोहनीयं ?, न हि तद्दर्शनं मोहयति, तस्य प्रशमादिपरिणामहेतुत्वात्, उच्यते, इह सम्यक्त्ववेदनीयं मिथ्यात्वप्रकृतिः, ततोऽतिचारसम्भवात् औपशमिक क्षायिकदर्शन मोहनाचेदं दर्शनमोहनीयमित्युच्यते, चारित्रमोहनीयं द्विविधं - कषायवेदनीयं नोकपायवेदनीयं च तत्र यत्क्रोबादिकवायरूपेण वेद्यते तत्कषायवेदनीयं यत्पुनः स्त्रीवेदादिनोकपायरूपेण वेद्यते तन्नोकषायवेदनीयं, चशब्दौ स्वगतानेकभेदसूचकौ, तत्र कषायवेदनीयं षोडशविधं क्रोधमानमायाठोभानां प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसअवलन रूपत्वात्, तत्रानन्तं संसारमनुबभन्ती येवंशीला अनन्तानुबन्धिनः उक्तं च – “अनन्तान्यनुवन्ति यतो जन्मानि भूतये । ततोऽनन्तानुबन्धाख्या, क्रोधाद्येषु नियोजिता ॥ १ ॥ एषां संयोजना इति द्वितीयमपि नाम, तत्रायमन्वर्थः — संयुज्यन्ते सम्ब ध्यन्तेऽनन्तसङ्ख्यैर्भवेर्जन्तवो वैस्ते संयोजनाः, उक्तं च- 'संयोजयन्ति यन्नरमनन्तसङ्ख्यैर्भवैः कपायास्ते । संयोजनताऽनन्तानुवन्धिता वाध्यतस्तेषाम् ॥ १ ॥” सर्वे प्रत्याख्यानं देशप्रत्याख्यानं च येषामुदये न लभ्यते ते भवन्त्यप्रत्या For Pernal Use On ------------- ~939~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy