________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [२९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२९०]
मायामपि परवञ्चनात्मिका किञ्चिदभिलषन् प्रयुक्ते अभिलाषश्च प्रीतिखभाव इति साऽपि प्रीत्यात्मिका, तत एतौ मायालोभी प्रीत्यात्मकत्वात् रागः, उक्तं च-"कोहं माणं चापीइजाइतो बेइ संगहो दोसं । मायाए लोभेण य स पीइसामण्णतो रागं ॥१॥" अत्र उत्तरार्द्धस्याक्षरयोजना-मायया लोभेन सह प्रीतिजातिसामान्यात् स मानप्रीतिजातिभावात् द्वावपि मायालोभौ स सङ्ग्रहो रागमाचष्टे इति । व्यवहारः पुनते-माया खलु परोपघाताय प्रयुज्यते परोपघातपरिणामश्च द्वेष इति मायाया अपि द्वेषेऽन्तर्भावः, या तु न्यायोपादानेनार्थे मूर्छा स परोपपातरहितः शुद्धो लोम इति रागः, एवं चेदमस्य मतेन वस्तु व्यवस्थितं-क्रोधमानमाया द्वेपो लोगो राग इति, आहा। च-मायपि दोसमिच्छइ ववहारो जं परोवघायाय । नायोवायाणे चिय मुच्छा लोभेत्ति तो रागो ॥१॥" ऋजुसूत्रः पुनराह-क्रोधो नियमादप्रीत्यात्मकः, ततः स परोपघातात्मकत्वात् द्वेषः, ये तु मानमायालोभास्ते द्विधाऽपि सम्भवन्ति-प्रीत्यात्मका अप्रीत्यात्मकाच, तथाहि-मानः स्वाहङ्कारोपयोगकाले प्रीत्यात्मकः स्वगुणव| हुमानभावात् , परगुणद्वेषोपयोगवेलायामप्रीत्यात्मको मात्सर्यादिभावात्, मायाऽपि परवञ्चनोपयोगप्रवृत्तौ परोपघातरूपत्वात् अप्रीत्यात्मिका परगतद्रव्योपादानचिन्तायां त्वभिष्वनात्मकत्वात् प्रीतिरूपा, लोभोऽपि क्षत्रियादीनां परिचिन्त्यमानः प्रीत्यप्रीत्यात्मकः सुप्रतीतः, तथाहि-क्षत्रिया एवं मन्यन्ते परविषयापहारोऽस्माकं न्यायो 'वीर-3 भोग्या वसुन्धरा' इति न्यायात्, ततो यदा परविषयापहाराय तेषामत्यर्थमभियोगस्तदाऽसौ अप्रीत्यात्मकः, परोप-15
दीप
aeaasaradasesaore8929
अनुक्रम [५३७]
~ 915~