________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], --------------- उद्देशक: [-], ------------- दारं [-], ------------ मूलं [२८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [२८४]
क्रिया तस्यारम्भिकी नियमात्, अप्रत्याख्यानिनोऽवश्यमारम्भसम्भवात् , एवं मिथ्यादर्शनप्रत्यययापि सहाविनाभावो भावनीयः, तथाहि-यस्थारम्भिकी क्रिया तस्य मिथ्यादर्शनप्रत्यया स्याद्भवति स्थान भवति, मिथ्यादृष्टे - वति शेषस्य न भवतीत्यर्थः, यस्य तु मिथ्यादर्शनक्रिया तस्य नियमादारम्भिकी, मिथ्यादृष्टेरविरतत्वेनावश्यमारम्भ-11 सम्भवात् , तदेवमारम्भिकी क्रिया पारिवाहिक्यादिभिश्चतसृभिरुपरितनीभिः क्रियाभिः सह परस्परमविनाभावेन चिन्तिता, एवं पारिवाहिकी तिसृभिर्मायाप्रत्यया द्वाभ्यामप्रत्याख्यानक्रिया एकया मिथ्यादर्शनप्रत्ययया चिन्तनीया, तथा चाह-एवं पारिग्गहियावि तिहिं उपरिल्लाहिं समं संचारेयवा' इत्यादि सुगम, भावनायाः सुप्रतीतत्वात् । अमुमेवार्थ चतुर्विशतिदण्डकक्रमेण निरूपयति-'नेरइयस्स आइलातो चत्तारि' इत्यादि, नैरयिकायु-1 कर्पतोऽप्यविरतसम्यग्दृष्टिगुणस्थानकं यावन्न परतः ततो नैरयिकाणामाद्याश्चतस्त्रः क्रियाः परस्परमविनाभाविन्यः, मिथ्यादर्शनक्रियां प्रति स्याद्वादः, तमेवाह-'जस्स एयाओ चत्तारि' इत्यादि, मिथ्यारष्टेर्मिध्यादर्शनक्रिया भवति शेषस्य न भवतीति भावः, यस पुनर्मिथ्यादर्शनक्रिया तस्याद्याश्चतस्रो नियमात्, मिथ्यादर्शने सत्यारम्भिक्यादी-1 नामवश्यंभावात् , एवं तावद्वक्तव्यं यावत्स्वनितकुमारस्य । पृथिव्यादीनां चतुरिन्द्रियपर्यवसानानां पञ्च क्रियाः परस्परमविनाभाविन्यो वक्तव्याः, पृथिव्यादीनां मिथ्यादर्शनक्रियाया अप्यवश्यंभावात् , तिर्यपञ्चेन्द्रियस्यायास्तिस्रः परस्परमविनाभूता देशविरतिं यावदासामवश्यंभावात् , उत्तराभ्यां तु द्वाभ्यां स्थाद्वादः, तमेव दर्शयति-'जस्स
दीप
अनुक्रम [५२९]
Reacticeaeoes
ForParmanasambuonm
~899~