________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], -------------- दारं [-], --------------- मूलं [२८१-२८१-R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [२८१२८१R]
व्यपरोपणरूपा क्रिया नास्ति, तेषामनपयायुष्कत्वात् , ततस्तान् प्रति स्यात् त्रिक्रियः स्थाचतुष्क्रिय इति वक्तव्यं, | नरयिको देवान् प्रति कथं चतुष्क्रिय इति चेत् , उच्यते, इह भवनवास्थादयो देवास्तृतीयां पृथिवीं यावत् गता गमिष्यन्ति च, किमर्थं गता गमिष्यन्तीति चेत् ?, उच्यते, पूर्वसाङ्गतिकस्य वेदनामुपशमयितुं पूर्ववैरिणो वेदनामुदीरयितं (वा) तत्र गच्छन्ति, तदानीमनन्तकालादेतदपि भवति (यद्) तद्गताः सन्तो नारकैर्वध्यन्ते इति, आहा च मूलटीकाकारोऽपि-"तत्र मता नारकैर्वध्यन्ते इत्यप्यनन्तकाल एव कथञ्चित्सम्भवमात्र"मिति, अत्रापर आहननु नारकस्य द्वीन्द्रियादीनधिकृत्य कथं कायिफ्यादिक्रियासम्भवः, उच्यते, इह नारकैर्यस्मात् पूर्वभवशरीरं न व्युत्सृष्टं विवेकाभावात् , तदभावश्च भवप्रत्ययात् , ततो यावत् शरीरं तेन जीवेन निर्वर्तितं सत् तं शरीरप-| |रिणामं सर्वथा न परित्यजति तावद् देशतोऽपि तं परिणाम भजमानं पूर्वभावप्रज्ञापनया तस्येति व्यपदिश्यते घृतघटवत् , यथा हि धृतपूर्णो घटो घृते अपगतेऽपि घृतघट इति व्यपदिश्यते, तथा तदपि शरीरं तेन निर्वर्त्तितमिति तस्येति व्यपदेशमर्हति, ततस्तस्य शरीरस्य एकदेशेनास्थ्यादिना योऽन्यः प्राणातिपातं करोति, ततः पूर्वनिर्वर्तितशरीरजीवोऽपि कायिक्यादिक्रियाभियुज्यते, तेन तस्याव्युत्सृष्टत्वात् , तत्रेयं पञ्चानामपि क्रियाणां भावनातत्कायस्य व्याप्रियमाणत्वात् कायिकी कायोऽधिकरणमपि भवतीत्युक्तं प्राक् तत आधिकरणिकी, प्राद्वेषिक्यादयस्त्वेवं-यदा तमेव शरीरैकदेशं अभिघातादिसमर्थमन्यः कश्चनापि प्राणातिपातोद्यतो दृष्ट्वा तस्मिन् घासे द्वीन्द्रियादी
Resercedesemeलरालिटलटाएर
दीप अनुक्रम [५२७-५२८]
मूल-सम्पादकस्य स्खलनत्वात् अत्र सूत्र-क्रमांक २८१' द्वि-वारान् मुद्रितं, तस्मात् मया '२८१-R' इति संज्ञा दत्वा सूत्र-क्रमांक लिखितं
~889~