________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: [-], ------------ दारं [-], ------------ मूलं [२६] + गाथा: (९५-१०५+प्र०१)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
सूत्रांक [२६]
गाथा:
+ प्र०
प्रतीतिपथमवतरन्ति तथा प्रतिपादयन्नाह-यथा अयोगोलो ध्मातः सन् तप्ततपनीयसंकाशः सर्वोऽग्निपरिणतो भयति तथा निगोदजीवान् जानीहि, निगोदरूपेऽप्येकैकस्मिन् शरीरे तच्छरीरात्मकतया अनन्तान् जीवान् परिणतान् जानीहि ॥९८॥ एवं च सति-एकस्य द्वयोत्रयाणां यावत्संख्येयानां पाशब्दादसंख्येयानां वा निगोदजीवानां शरीराणि द्रष्टुं न शक्यानि, कुत इति चेत् ?, उच्यते-अभावात् , न हि एकादिजीवगृहीतानि अनन्तवनस्पतिशरीराणि सन्ति, अनन्तजीवपिण्डात्मकत्वात्तेषाम् , कथं तर्हि उपलभ्यानि?, इत्यत आह-'दीसंती' त्यादि, दृश्यन्ते शरीराणि निगोदजीवानां-बादरनिगोदजीवानां अनन्तानां न तु सूक्ष्मनिगोदजीवानां, तेषां शरीराणामनन्तजीवसङ्घातात्मकत्वेऽप्यनुपलभ्यखभावत्वात् , तथासूक्ष्मपरिणामपरिणतत्वात् , अथ कथमेतदवसीयते-निगोदरूपशरीरं नियमादनन्तजीवपरिणामाविर्भावितं भवति ?, उच्यते-जिनवचनात्, तचेदम् 'गोला य असंखेजा होति निगोया असंखया गोले । एकेको य निगोओ अणंतजीवो मुणेयव्यो॥१॥ ॥ ९९ ॥ सम्प्रति एतेषामेव निगोदजीवानां प्रमाणमभिधित्सुराह-एकैकस्मिन् लोकाकाशप्रदेशे एकैकं निगोदजीवं स्थापय, एवमेकैकस्मिन् आकाशप्रदेशे एकैकजीवरचनया मीयमानाः 'अनन्तलोका' अनन्तलोकाकाशप्रमाणा निगोदजीवा भवन्ति ॥ १०० ।। सम्प्रति प्रत्येकवनस्पतिजीवनमाणमाह-एककस्मिन् लोकाकाशप्रदेशे एकैकं प्रत्येकवनस्पतिजीवं स्थापय, एवमुक्तप्रकारेण मीयमानाः प्रत्ये१ गोलाश्चासंख्येया भवन्ति निगोदा असंख्येया गोलके । एकैकश्च निगोदोऽनन्तजीवो ज्ञातव्यः ॥ १ ॥
दीप अनुक्रम [१३५
-१४८]
~83~