________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२५५-२५६] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२५५-२५६]
एराटceceneseseekerseceserce
गाथा
कियन्त एकसमयेनान्तक्रियां कुर्वन्तीति चिन्त्यते, तत 'उचट्टा' इति उदृत्ताः सन्तः कस्यां योनावुत्पद्यन्ते इति वक्तव्यं, तथा यत उदृत्तातीर्थकराश्चक्रवर्तिनो बलदेवा वासुदेवा माण्डलिकाचक्रवर्तिनो रत्नानि च-सेनापतिप्रमुखाणि भवन्ति ततस्तानि क्रमेण वक्तव्यानि इति द्वारगाथासंक्षेपार्थः । विस्तरार्थे तु सूत्रकृदेव वक्ष्यति, तत्र प्रथमतोऽन्तक्रियामभिधित्सुराह-'जीवे णं भंते !' इत्यादि, जीवो 'ण'मिति वाक्यालङ्कृतौ भदन्त ! 'अन्तक्रिया मिति अन्तः-अवसानं, तच प्रस्तावादिह कर्मणामवसातव्यं, अन्यत्रागमेऽन्तक्रियाशब्द (वाच्यतया त)स्य रूढत्वात् , तस्य क्रिया-करणमन्तक्रिया-कर्मान्तकरणं मोक्ष इति भावार्थः, “कृत्सकर्मक्षयान्मोक्षः" इति वचनात् , तां कुर्याद् ?, भगवानाह-गौतम! अस्येकको यः कुर्यात्, अस्त्येकको यो न कुर्यात्, इयमत्र भावना-यस्तथाविधभव्यत्वपरिपाकवशतो मनुष्यत्वादिकामविकलो सामग्रीमवाप्य तत्सामर्थ्यसमुद्भूतातिप्रबलवीर्योल्लासवशतः क्षपकश्रेणिसमारोहणेन केवलज्ञानमासाद्याघातीन्यपि कर्माणि क्षपयेत् स कुर्यात्, अन्यस्तु न कुर्यात्, विपर्ययादिति । एवं नैरयिकादिचतुर्विशतिदण्डकक्रमेण तावद् भावनीया यावद् वैमानिकाः, सूत्रपाठस्त्येवम्-'नेरइएणं भंते ! अंतकिरियं करेजा, गोयमा ! अत्थेगइए करेजा अत्थेगइए नो करेजा' इत्यादि । इदानी नैरयिकेषु मध्ये वर्तमानोऽन्तक्रियां करोति किं वा न करोति । इति पिपृच्छिपुरिदमाह-'नेरइए णं भंते' इत्यादि, भगवानाह-गौतम ! नायमर्थः समर्थः । नायमों युक्त्युपपन्न इत्यर्थः । कथमिति चेत् ?, उच्यते, इह कृत्स्नकर्मक्षयः प्रकर्षप्राप्तात्सम्यग्दर्शनज्ञानचारित्रसमु-18
అంతరించి
दीप अनुक्रम [४९६-४९८]
~ 797~