________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशकः [-], ------------ दारं [-], ------------ मूलं [२५...] + गाथा: (८०-९२) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[२५]
गाथा:
चक्राकारं भकं प्रन्थिस्थाने रजसा व्याप्तिं च विना पृथिवीसशेन भेदेन भास्थानं भवति, सूर्यकरनिकरप्रतप्तकेदारतरिकाप्रतरखण्डस्येव समो भङ्गो मवतीतिभावः तमनन्तकार्य विजानीहि ॥ ८॥ पुनरपि लक्षणान्तरमाह-यत्पत्रं सक्षीरं निःक्षीरं वा गूढशिराक-अलक्ष्यमाणशिराविशेषं यदपि च प्रनष्टसन्धि-सर्वथाऽनुपलक्ष्यमाणपत्रार्द्धद्वयसन्धि तदनन्तजीवं विजानीहि ॥ ८१ ॥ सम्प्रति पुष्पादिगतं विशेषमभिधित्सुराह-पुष्पाणि चतुर्विधानि, तद्यथा-जलजानि-सहस्रपत्रादीनि स्थलजानि-कोरण्टकादीनि, एतान्यपि च प्रत्येकं द्विधा, तद्यथा-कानिचिहृन्तबद्धानि अतिमुक्तकप्रभृतीनि कानिचिन्नालबद्धानि जातिपुष्पप्रभृतीनि, अत्र एतेषां मध्ये कानिचित्पत्रादिगतजीवापेक्षया सञ्जयजीवानि कानिचिदसङ्ख्येयजीवानि कानिचिदनन्तजीवानि यथाऽऽगमं बोद्धव्यानि ॥ ८२॥ अत्रैव कश्चिद्विशेषमाह-यानि कानिचित् नालिकाबद्धानि पुष्पाणि जात्यादिगतानि तानि सर्वाण्यपि सङ्ख्यातजीवकानि भणितानि तीर्थकरगणधरैः, निहु:-लिहूपुष्प (योहरपुष्पं) पुनरनन्तजीवं, यान्यपि चान्यानि निहूपुष्पकल्पानि तान्यपि तथाक्विानि-अनन्तजीवात्मकानि ज्ञातव्यानि ॥ ८३॥ पद्मिनीकन्दः-उत्पलिनीकन्दः, अन्तरकन्दो-जलजवनस्पति[विशेषकन्दः, झिल्लिका-बनस्पतिविशेषरूपा, एते सर्वेऽप्यनन्तजीवाः, नवरं पमिन्यादीनां विसे (नाले) मृणाले च IS किमिति ? (एको जीवः) एकजीवात्मके बिसमृणाले इति भावः ॥८॥ पलण्डुकन्दो लसुनकन्दः कन्दलीकन्दको
वनस्पतिविशेषः, कुस्तुम्बकोऽप्येवमेव, एते सर्वेऽपि परित्तजीया' प्रत्येकशरीरजीवात्मकाःप्रतिपत्तव्याः, येऽपि चान्ये
दीप अनुक्रम [१२०१३२]
म.
७
Jurasurary.com
~77~