________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [४], -------------- दारं [-], --------------- मूलं [२२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२२६]
दीप अनुक्रम [४६४]
पोतः कृष्णकेशरः-कृष्णबकुलः आकाशथिग्गलं--शरदि मेघापान्तरालवाकाशखण्ड, तदपि हि अतीव उष्णं प्रतिभाति इत्युक्तं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवाः-अशोककणवीरवन्धुजीवाः वृक्षविशेषाः, अशोकादयो हि जातिभेदेन पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासार्थ कृष्णग्रहणं, एतावत्युक्ते गौतम आह-'भवे एयारूवा? भगवन् ! भवेत् कृष्णलेश्या वर्णेन एतद्रूपा १, भगवानाह-गौतम ! नायमर्थः समर्थः-नायमर्य उपपन्नः, एतदूपा कृष्णलेश्येति, किंतु !, सा कृष्णलेश्या इतो जीमूतादेः कृष्णेन वर्णेन अनिष्टतरिका चैव इयमनिष्टा २ इयमनयोर्मध्येऽतिशयेनानिष्टा अनिष्टतरा अनिष्टतरैवानिष्टतरिका अनिप्सिततरिका एवेति भावः, इह किञ्चिदनिष्टमपि
खरूपतः कान्तं भवति ततः कान्तताब्युदासार्थमाह-अकान्ततरिकैव, किञ्चित्केषाश्चिदनिष्टमपि खरूपतोऽकान्तINमपि अपरेषां प्रियं भवति ततः सर्वथा प्रियताब्युदासार्थमाह-अप्रियतरिकैव, अत एवामनोज्ञतरिकैव, वस्तुतः
सम्यक् परिज्ञाने सति मनागप्युपादेयतया तत्र मनसः प्रवृत्त्यसंभवात् , अमनोज्ञतरमपि किञ्चिन्मध्यमं भवति ततः प्रकृष्टतरप्रकर्षविशेषप्रतिपादनार्थमाह-अमनआपतरिकैव, मनांसि आमोति-आत्मवशतां नयतीति मनापा न मनपा अमनआपा ततो द्वयोः प्रकर्षे तरप एवंभूता वर्णन प्रज्ञप्ता, 'नीललेस्सा गंभंते।' इत्यादि, अक्षरगमनिका प्राग्वत् , नवरं भृङ्गः-पक्षिविशेषः पश्मलः भृङ्गपत्रं-तस्यैव पक्षिविशेषस्य पक्ष्म चासः-पक्षिविशेषः 'चासपिच्छं' चासस्य पतत्रं शुकः-कीरः 'शुकपिर्छ' शुकस्य पतत्रं श्यामा-प्रियनुः वनराजी-प्रतीता उच्चन्तको-दन्तरागः
~727~