SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२२३] दीप अनुक्रम [४६०] प्रज्ञापनायाः मल य० वृत्ती. ॥ ३५६ ॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) उद्देशक: [३], दारं [-1, मूलं [२२३] आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१७], मुनि दीपरत्नसागरेण संकलित णं भंते । इत्यादि, इयमत्र भावना -- यथा समभूभागव्यवस्थित एव कश्चित् विवक्षितः पुरुषः चक्षुर्नैर्मल्यवशात् मनागधिकं पश्यति न प्रभूततरं तथा विवक्षितोऽपि कश्चित् कृष्णलेश्याको नैरयिकः खभूमिकानुसारेणातिविशुद्धोऽपि समानपृथिवीकमपरं कृष्णलेश्या कं नैरयिकमपेक्ष्य यदि परमवधिना मनागधिकं पश्यति न तु प्रभूततरं, अन्न समभूभागस्थानीया समाना पृथिवी स्वभूमिकासमाना च कृष्णरूपा लेश्या चक्षुः स्थानीयमवधिज्ञानमेतावता चैतदपि ध्वनितं यथा समभूभागव्यवस्थितः पुरुषः सर्वतः समन्तादभिलोकमानो गर्त्तागतं पुरुषमपेक्ष्यातिप्रभूततरं | पश्यति तथा पञ्चमपृथिवीगतः स्वभूमिकानुसारेणातिविशुद्धः कृष्णलेश्याको विवक्षितोऽपि नैरयिकः सप्तमपृथिवीगतं कृष्णलेश्या कमतिमन्दानुभागावधिनैरयिकमपेक्ष्यातिप्रभूतं पश्यति, मनागधिकत्रिगुणक्षेत्रसम्भवात् ॥ सम्प्रति | नीललेश्याकविषयं सूत्रमाह- 'नीललेसे णं भंते! नेरइए कण्हलेस नेरइयं पणिहाए' इत्यादि, अक्षरगमनिका सुगमा, नवरं 'वितिमिरतरागं खेत्तं जाणइ' इति विगतं तिमिरं-- तिमिरसम्पाद्यो भ्रमो यत्र तद्वितिमिरं, इदं वितिमिरमिदं वितिमिरमनयोरतिशयेन वितिमिरं वितिमिरतरं 'द्वयोर्विभज्ये तरवि'ति तरप्प्रत्ययः, ततः प्राकृतलक्षणात् खार्थे कप्रत्ययः पूर्वस्य च दीर्घत्वं अत एव विशुद्धतरं निर्मलतरं अतीव स्फुटप्रतिभासमितियावत्, भावना वियंयथा धरणितलगतं पुरुषमपेक्ष्य पर्वतारूढः पुरुषोऽतिदूरं क्षेत्रं पश्यति तदपि प्रायः स्फुटप्रतिभासं तथा विवक्षितोऽपि नीललेश्याको नैरयिको योग्यतानुसारेणातिविशुद्धावधिः कृष्णलेश्याकं नैरविकमपेक्ष्यातिदूरं वितिमिर Education International For Parts Only ~716~ १७लेश्यापदे उद्देशः ।।३५६।। wor
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy