________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], --------- उद्देशक: -], -------------- दारं [-], -------------- मूलं [२०५...] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२०५]]
दीप अनुक्रम [४४१]
ते च परमार्थतः कषायखरूपा एव, तदन्तर्गतत्वात् , केवलं योगान्तर्गतद्रव्यसहकारिकारणभेदवैचित्र्याभ्यां ते कृष्णादिभेदर्भिन्नाः तारतम्यभेदेन विचित्राश्चोपजायन्ते, तेन यद् भगवता कर्मप्रकृतिकृता शिवशर्माचार्येण शतकाख्ये ग्रन्थेऽभिहितं “ठिइअणुभागं कसायओ कुणाई" इति तदपि समीचीनमेव, कृष्णादिलेश्यापरिणामानामपि कषायोदयान्तर्गतानां कषायरूपत्वात् , तेन यदुच्यते कैश्चिद्-योगपरिणामत्वे लेश्यानां "जोगा पयडिपएसं ठिइअणुभार्ग कसायो कुणइ" इति वचनात् प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यान्न कर्मस्थितिहेतुत्वमिति, तदपि न समीचीनं, यथोक्तभावार्थापरिज्ञानात्, अपि च-न लेश्याः स्थितिहेतवः, किंतु कषायाः, लेश्यास्तु कषायोदयान्तर्गताः अनुभागहेतवः, अत एष च 'स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण' इत्यत्रानुभागप्रतिपत्त्यर्थ पाकग्रहणं, एतच सुनिश्चितं कर्मप्रकृतिटीकादिषु, ततः सिद्धान्तपरिज्ञानमपि न सम्यक् तेषामस्ति, यदप्युक्तम्-'कम्र्मनिप्यन्दो लेश्या, निष्यन्दरूपत्वे हि यावत् कषायोदयः तावन्निष्यन्दस्थापि सद्भावात् कर्मस्थितिहेतुत्वमपि युज्यते || एवे'त्यादि, तदप्यश्लीलं, लेश्यानामनुभागवन्धहेतुतया स्थितिवन्धहेतुत्वायोगात् , अन्यञ्च-कर्मनिष्यन्दः कि कर्मकल्क उत कर्मसारः, न तावत्कर्मकल्कः, तस्यासारतयोत्कृष्टानुभागबन्धहेतुत्वानुपपत्तिप्रसक्तः, कल्को हि असारो भवति असारश्च कथमुत्कृष्टानुभागवन्धहेतुः, अथ चोत्कृष्टानुभागवन्धहेतयोऽपि लेश्या भवन्ति, अथ कर्मसार इति पक्षस्तहि कस्य कर्मणः सार इति वाच्यं , यथायोगमष्टानामपीति चेत् अष्टानामपि कर्मणां ।
~665~