SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [-], -------------- दारं [-], --- -------- मूलं [२०५...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२०५]] प्रज्ञापना-चिच्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते ॥१॥" अथ कानि कृष्णादीनि १६ प्रयोयाः मल-द्रव्याणि ?, उच्यते, इह योगे सति लेश्या भवति, योगाभावे च न भवति, ततो योगेन सहान्वयव्यतिरेकदर्शनात् ॥ गपदं य. वृत्ती. योगनिमित्ता लेश्येति निधीयते, सर्वत्रापि तन्निमित्तत्वनिश्चयस्यान्वयव्यतिरेकदर्शनमूलत्वात् , योगनिमित्तताया मपि विकल्पद्वयमवतरति-किं योगान्तर्गतद्रव्यरूपा योगनिमित्तकर्मद्रव्यरूपा वा ?, तत्र न तावद्योगनिमित्तकर्मክንያዘ द्रव्यरूपा, विकल्पद्वयानतिक्रमात्, तथाहि-योगनिमित्तकर्मद्रव्यरूपा सती घातिकर्मद्रव्परूपा अधातिकर्मद्रव्यरूपा वा !, न तावद् घातिकर्मद्रव्यरूपा, तेषामभावेऽपि सयोगिकेवलिनि लेयायाः सद्भावात, नापि अघा|तिकर्मरूपा, तत्सद्भावेऽपि अयोगिकेवलिनि लेश्याया अभावात् , ततः पारिशेष्यात योगान्तर्गतद्रव्यरूपा प्रत्येया, तानि च योगान्तर्गतानि द्रव्याणि यावत्कपायास्तावत्तेषामप्युदयोपबृंहकाणि भवन्ति, दृष्टं च योगान्तर्गतानां द्रव्याणां कपायोदयोपबृंहणसामर्थ्य, यथा पित्तद्रव्यस्य, तथाहि-पित्तप्रकोपविशेषादुपलक्ष्यते महान् प्रवर्द्धमानः कोपः, अन्यच याह्यान्यपि द्रव्याणि कर्मणामुदयक्षयोपशमादिहेतव उपलभ्यन्ते, यथा-बाहयौपधिर्ज्ञानावरण[स्य क्षयोपशमस्य सुरापानं ज्ञानावरणोदयस्य, कथमन्यथा युक्तायुक्तविवेकविकलतोपजायते, दधिभोजनं निद्रारूपदर्श-11 नावरणोदयस्य, तत्किं योगद्रव्याणि न भवन्ति ?, तेन यः स्थितिपाकविशेषो लेश्यावशादुपगीयते शास्त्रान्तरे स सम्यगुपपन्नः, यतः स्थितिपाको नामानुभाग उच्यते, तस्य निमित्तं कषायोदयान्तर्गतकृष्णादिलेश्यापरिणामाः, eeseseccc दीप अनुक्रम [४४१] SAREauratonintamational अथ (१७) लेश्या-पदे उद्देश- (१) आरभ्यते ...'लेश्या' शब्दस्य व्याख्या ~664~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy