________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], --------------- उद्देशक: [-], --------------- दारं [-], --------------- मूलं [२०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
ecector
प्रत सूत्रांक [२०२]
णामिति १, तत उत्पत्तिमाश्रित्यौदारिकस्य प्रधानत्वात् कादाचित्कत्वाच निप्रतिपक्ष विचक्षितार्थप्रतिपयर्थमौदारिकेण व्यपदिश्यते-औदारिकमिश्रमिति, तथा यदीदारिकशरीरो वैक्रियलब्धिसम्पन्नो मनुष्यस्तिर्यपश्चेन्द्रियः पर्याप्तकवादरवायुकायिको वा वैक्रियं करोति तदा किलौदारिकशरीरप्रयोग एव वर्तमानः प्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुगलानुपादाय वैक्रियशरीरपर्याप्त्या यावन पर्याप्तिमुपगच्छति तावत् यद्यपि वैक्रियेण मिश्रतोदारिकस्योभयनिष्ठा तथाप्यौदारिकस्य प्रारम्भकतया प्रधानत्वात् तेन व्यपदेश औदारिकमिश्रमिति, न वैक्रियेणेति, तथा आहारकमपि शरीरं यदा कश्चिदाहारकलब्धिमान् पूर्वधरः करोति तदा यद्यप्याहारकेण मिश्रत्वमौदारिकस्योभयनिष्ठं तथाप्यौदारिकमारभकतया प्रधानमिति तेन व्यपदेशप्रवृत्तिरौदारिकमिश्रमिति, न त्वाहारकेणेति,
औदारिकमिश्रं च तत् शरीरं चेत्यादि पूर्ववत् २, वैक्रियशरीरकायप्रयोगो वैक्रियशरीरपर्याप्त्या पर्याप्तस्य ३, वैक्रिहायमिश्रशरीरकायप्रयोगो देवनारकाणामपर्याप्तावस्थायां, मिश्रता च तदानीं कार्मणेन सह वेदितव्या, अत्राक्षेपप-1 रिहारी प्राग्वत् , तथा यदा मनुष्यस्तिर्यपञ्चेन्द्रियो वायुकायिको वा वैक्रियशरीरी भूत्वा कृतकार्यों वैक्रियं परिजि-11 हीर्घरौदारिके प्रवेष्टुं यतते तदा किल वैक्रियशरीरबलेनौदारिकोपादानाय प्रवर्त्तते इति वैक्रियस्य प्राधान्यात्तेन व्यपदेशो नौदारिकेणेति वैक्रियमिश्रमिति ४, तथा आहारकशरीरकायप्रयोगः आहारकशरीरपर्याप्त्या पर्याप्तस्य ५, आहारकमिश्रशरीरकायप्रयोगः आहारकादौदारिकं प्रविशतः, एतदुक्तं भवति यदा आहारकशरीरी भूत्वा
दीप अनुक्रम [४३८]
~641~