________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], --------------- उद्देशक: [-], --------------- दारं [-], -------------- मूलं [२०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२०२]
त्ययः, भगवानाह–पञ्चदशविधः प्रज्ञप्तः, तदेव पञ्चदशविधत्वं दर्शयति-'सच्चमणप्पओगे' इत्यादि, सन्तो-मुनयः पदार्था वा तेषु यथासङ्ख्यं मुक्तिप्रापकत्वेन यथावस्थितवस्तुखरूपचिन्तनेन च साधु सत्यं-अस्ति जीवः सदसद्रूपो । देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुचिन्तनपरं, सत्यं च तत् मनश्च सत्यमनः तस्य प्रयोगो-व्यापारः सत्यमनप्रयोगः, 'असचमणप्पओगे' इति, सत्यविपरीतमसत्यं, यथा-नास्ति जीवः एकान्तसद्रूपो वेत्यादिकुविकल्पनपरं, तब तन्मनच तस्य प्रयोगोऽसत्यमनःप्रयोगः, 'सच्चमोसमणप्पओग' इति सत्यमृपा-सत्यासले यथा धवस-11 |दिरपलाशादिमिश्रेषु बहुप्पशोकवृक्षेषु अशोकवनमेवेदमिति विकल्पनपरं, तत्र हि कतिपयाशोकवृक्षाणां सद्भावातू सत्यता अन्येषामपि धवस्खदिरादीनां सद्भावादसत्यता, व्यवहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरिदमसत्यमेव, यथाविकल्पितार्थायोगात् , तच तन्मनश्चेत्यादि प्राग्वत् , तथा 'असचामोसमणप्पओगे' इति यन्न सत्यं नापि |
मृषा तदसत्यामृषा, इह चिनतिपत्तौ सत्यां वस्तुप्रतिष्ठासया सर्वज्ञमतानुसारेण विकल्प्यते यथा अस्ति जीवः सदस-१ Nद्रूप इति तत्किल सत्यं परिभाषितमाराधकत्वात् , यत्पुनर्विप्रतिपत्ती सत्यां यद्वस्तुप्रतिष्ठाशयाऽपि सर्वज्ञमतोत्तीर्ण |विकल्प्यते यथा नास्ति जीवः एकान्तनित्यो वेत्यादि तदसत्सं विराधकत्वात् , यत्पुनर्वस्तुप्रतिष्ठासामन्तरेण खरूपमात्रपोलोचनपरं यथा-देवदत्तात् ३ घट आनेतन्यो गौर्याचनीया इत्यादिचिन्तनपरं तन् असत्यामृषा, इदं हिH खरूपमात्रपर्यालोचनपरत्वात् न यथोक्तलक्षणं सत्यं नापि मृषा, एतदपि व्यवहारनयमतापेक्षया द्रष्टव्यं, अन्यथा
Sectionistraesearcinetelescene
दीप अनुक्रम [४३८]
~639~