________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१९८]
गाथा:
तदीयान् ॥१॥] इति । एवं स्थूणासूत्रमपि भावनीयं । 'आगासथिग्गले णे भंते !' इत्यादि, आकाशथिग्गलंलोकः, स हि महतो बहिराकाशस्य विततपटस्थ थिग्गलमिव प्रतिभाति, भदन्त ! केन 'स्पृष्टो' व्याप्तः, एतत्सामस्थेन । पृष्टमेतदेव विशेषतः प्रश्चयति-'कतिभिः' कियत्सङ्ख्याकः कार्यः स्पृष्टः, पाशब्द: पक्षान्तरद्योतनार्थः, प्रकारान्तर च सामान्याद्विशेषतः, तान् कायान् प्रत्येकं पृच्छति-किं धम्मत्थिकाएणं फुडे !' इत्यादि सुगम, भगवानाह-गौतम ! धर्मास्तिकायेन स्पृष्टः, धर्मास्तिकायस्य सर्वात्मना तत्रावगाढत्वात् , अत एव नो धर्मास्तिकायस्य देशेन स्पृष्टो, यो हि येन सर्वात्मना व्याप्तो नासौ तस्यैव देशेन व्याप्तो भवति, विरोधात् , प्रदेशैस्तु व्याप्तः, सर्वेषामपि धर्मास्तिकायप्रदेशानां तत्रावगाढत्वात् , एवमधर्मास्तिकायविषयेऽपि निर्वचनं वाच्यं, तथा नो आकाशास्तिकायेन सकलेन द्रव्येण स्पृष्टः, आकाशास्तिकायदेशमात्रत्वाल्लोकस्य, किन्तु देशेन व्याप्तः, प्रदेशैश्च पृथिव्यादयोऽपि सूक्ष्माः सकललोकापन्ना वर्तन्ते ततस्तैरपि सर्वात्मना व्याप्तः, 'तसकाएक सिय फुडे' इति, यदा केवली समुद्घातं गतः सन् चतुर्थे समये वर्तते तदा तेन खप्रदेशैः सकललोकपूरणात् त्रसकायेन स्पृष्टः, केवलिनखसकायत्वात् , शेषकालं तु न स्पृष्टः, सर्वत्र त्रसकायानामभाषात् , एवं जम्बूद्वीपादिविषयाण्यपि सूत्राणि भावनीयानि, नवरं बहिःपुष्करार्द्धचिन्तायां 'अद्धासमएण न फुडे' इति, अद्धासमयो बर्द्धतृतीयद्वीपसमुद्रान्तर्वी न बहिः, एतच धर्मसहणिटीकायां भावितं, ततो बहिद्वीपसमुद्राणामद्धासमयस्पर्शनप्रतिषेधः, 'जंबुद्दीवे लवणे' गाहा, सर्वद्वीपसमुद्राणामभ्यन्तरवती जम्बूद्वीपस्तत्परिक्षेपी
दीप अनुक्रम [४२८-४३२]
~617~