________________
आगम
(१५)
प्रत
सूत्रांक
[१९५]
दीप
अनुक्रम
[४२५]
प्रज्ञापना
या मल
य० वृत्ती.
॥१०२॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
उद्देशक: [१], दारं [-1, मूलं [१९५] ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [१५],
मुनि दीपरत्नसागरेण संकलित..
Eucation Th
जहा सुए भणियं । आउस्सेहपमाणंगुलाण एक्केणचि न जुत्तं ॥ २ ॥ [ लक्षेष्वेकविंशती सातिरेकेषु पुष्करार्धे । उदये प्रेक्षन्ते नराः सूर्ये उत्कृष्टे दिवसे ॥ १ ॥ नयनेन्द्रियस्य तस्मात् विषयप्रमाणं यथा श्रुते भणितं । आत्मोत्सेधप्रमाणाङ्गुलानामेकेनापि न युक्तं ॥ २ ॥] सत्यमेतत्, केवलमिदं सूत्रं प्रकाश्यविषयं द्रष्टव्यं न तु प्रकाशकविषयं ततः प्रकाशकेऽधिकतरमपि विषयपरिमाणं न विरुध्यते इति न कश्चिद्दोषः, कथमेवंविधोऽर्थोऽवसीयते इति चेत् ?, उच्यते, पूर्वसूरिकृत व्याख्यानात् सकलमपि हि कालिकश्रुतं पूर्वसूरिकृतव्याख्यानानुसारेणैव व्याख्यानयन्ति महाधियो, न यथाऽक्षरमात्रसन्निवेशं, पूर्वगत सूत्रार्थस परतया कालिकश्रुतस्य कचित्सङ्क्षिप्तस्याप्यर्थस्य महता विस्तरेण कचिद्विस्तरवतोऽप्यतिसङ्क्षेपेणाभिधाने अर्वाक्तनैः स्वमतियथावस्थितार्थतया ज्ञातुमशक्यत्वादत एवोक्तमिदमन्यत्र - " जं जह भणियं सुत्ते तहेब जइ तं चियालणा नत्थि । किं कालियाणुओगो दिट्ठो दिद्विप्पहाणेहिं १ ॥ १ ॥” [यद्यथा भणितं सूत्रे तथैव यदि तद्विचालना नास्ति । किं कालिकानुयोगो दृष्टः प्रधानदृष्टिभिः १ ॥ १] तस्मात् पूर्वसूरिकृतव्याख्यानान्नाधिकृतग्रन्थविरोधः, आह च भाष्यकृत् -- "सुत्ताभिप्पाओऽयं पयासणिज्जे तयं नउ पयासे । वक्खाजाउ विसेसो नहि संदेहादलक्खणया ॥१॥” इति [ सूत्राभिप्रायोऽयं प्रकाशनीये तकत् नतु प्रकाशके । व्याख्यानाद्विशेषो नैव संदेहादलक्षणता ॥ १ ॥] तथा प्राणेन्द्रियजिह्वेन्द्रियस्पर्शनेन्द्रियाणि गन्धादीनुत्कर्षतो नवयोजनेभ्य आगतान् अच्छिन्नान् द्रव्यान्तरैरप्रतिहतशक्तिकान् परिच्छिन्दन्ति न परत आगतान्, परत आगतानां मन्दपरिणा
For Parts Only
~909~
१५ इन्द्रयपदे
उद्देशः १
॥३०१ ॥
waryra