________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
याः मलयवृत्ती.
॥२९८॥
[१९४]
एभिरिति शब्दाः तान् शृणोति-गृह्णाति उपलभते इतियावत् , किमुक्तं भवति ?-स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रे-१५ इन्द्रि[न्द्रियमुपलभते न तु प्राणेन्द्रियादिवत् बद्धस्पृष्टानीति, कस्मादिति चेत्, उच्यते, इह शब्दद्रव्याणि प्राणेन्द्रियादिवि- यपदे षयभूतेभ्यो द्रव्येभ्यः सूक्ष्माणि तथा बहूनि तथा तत्क्षेत्रभाविशब्दयोग्यद्ध्यवासकानि च, ततः सूक्ष्मत्वादतिप्रभूत-| उद्देशाः त्वात्तदन्यद्रव्यवासकत्वाच्चात्मप्रदेशैः स्पृष्टमात्राण्यपि निवृतीन्द्रियमध्ये प्रविश्य झटित्युपकरणेन्द्रियमभिव्यञ्जयन्ति, श्रोत्रेन्द्रियं च घाणेन्द्रियाद्यपेक्षया खविषयपरिच्छेदे पटुतरं, ततः स्पृष्टमात्राण्यपि तानि श्रोत्रेन्द्रियमुपलभते, नास्पृष्टान्-सर्वधाऽऽत्मप्रदेशः सम्बन्धमप्राप्तान , श्रोत्रेन्द्रियस्य प्राप्सविषयपरिच्छेदखभावत्वात् , यथा च श्रोत्रेन्द्रियस्य प्रास-18 कारिता तथा नन्द्यध्ययनटीकादौ चर्चितमिति ततोऽवधार्य, 'पुट्ठाई भंते ! रूवाई' इत्यादि सुगमं, निर्वचनमाह-गौतम! न स्पृष्टानि रूपाणि पश्यति चक्षः किन्त्वस्पृष्टानि, चक्षुयोऽप्राप्तकारित्वात् , तचाप्राप्तकारित्वं तत्वाधेटीकादी| सविस्तरेण प्रसाधितमिति ततोऽवधारणीयं, गन्धादिविषयाणि सूत्राणि सुप्रसिद्धानि, नवरं स्पृष्टान् गन्धान आजिप्रति इत्यादि यद्यप्युक्तं तथापि बद्धस्पृष्टानिति द्रष्टव्यम् , यत उक्तमावश्यकनियुक्ती-"पुढं सुणेइ सई रूवं पुण पासई अपुढे | तु ।गंध रसं च फासं च बद्धपुट वियागरे॥॥" [स्पृष्ट शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टमेव । गन्धं रसं च स्पर्श
च me बद्धस्पृष्टं व्याकुर्यात् ॥१॥] इति, तत्र स्पृष्टानिति पूर्ववत् बद्धानिति आत्मप्रदेशैरात्मीकृतान् ‘बद्धमप्पीकयं पएसेहिं' [बद्धमात्मीकृतं प्रदेशः] इति वचनात्, विशेषणसमासश्च, बद्धाच ते स्पृष्टाश्च बद्धस्पृष्टास्तान , इह स्पृष्टाः
दीप अनुक्रम [४२४]
~600~