________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१४], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [१८९-१९०] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१८९-१९०]
गाथा
estoeroeicceedee
भंते ! कहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिसु' इत्यादि, जीवा भदन्त ! कतिभिः स्थानैरष्टौ कर्मप्रकृतीश्चितयन्तः, चयनं नाम कपायपरिणतस्य कर्मपुद्गलोपादानमात्रं, भगवानाह-गौतम! चतुर्भिः स्थानस्तद्यथा-क्रोधेन मानेन मायया लोभेन, एवं नैरयिकादिदण्डकेऽपि वक्तव्यं, एष दण्डकोऽतीतकालविषयः, एवं वर्तमानकालभविष्यत्कालविषयावपि वाच्यो, एवमुपचयबन्धोदीरणावेदननिर्जराविषयाः प्रत्येकं त्रयस्त्रयो दण्डका वाच्या इति सर्वसङ्ख्यया अष्टादश दण्डकाः, तत्र उपचयो नाम खस्यावाधाकालस्योपरि ज्ञानावरणीयादिकर्मपुद्गलानां वेदनार्थ निषेकः, स चैव-प्रथमस्थिती सर्वप्रभूतं, द्वितीयस्यां स्थिती विशेषहीनं, ततोऽपि तृतीयस्यां विशेषहीन, एवं विशेषहीनं २ ताबद्वाच्यं यावत्तत्तत्कालबध्यमानायाः स्थितेश्चरमा स्थितिरेतच सविस्तरं कर्मप्रकृतिटीकायां पञ्चसंग्रहटीकायां । चाभिहितमिति ततोऽवधार्य, बन्धनं नाम-ज्ञानावरणीयादिकर्मपुद्गलानां यथोक्तप्रकारेण खखाबाधाकालोत्तरकालं निषिक्तानां यद्भूयः कषायपरिणतिविशेषानिकाचनं, उदीरणं-उदीरणाकरणयशतः कर्मपुद्गलानामनुदयप्रासानामुदयावलिकायां प्रवेशनं, तदपि हि किञ्चित्तथाविधकपायपरिणतिवशाद्भवतीति 'चउहि ठाणेहिं उदीरेंसु उदीरन्ति उदीरिस्संती'त्युक्तम् , अन्यथा कषायव्यतिरेकेणापि क्षीणमोहोदये ज्ञानावरणादीनामुदीरका वर्त्तन्ते इति, वेदना-खखाबाधाकालक्षयादुदयप्राप्तस्य उदीरणाकरणेन वा उदयमुपनीतस्य कर्मण उपभोगः, निर्जरा-कर्मपुद्गलानामनुभूय २ अकर्मत्वापादनं, आत्मप्रदेशैः संश्लिष्टानां ज्ञानावरणीयादिकर्मपुद्गलानामनुभूय २ शातनमिति भावः,
दीप अनुक्रम [४१६-४१८]
For P
OW
~ 587~