________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१३], ...-------- उद्देशक: [-], ---------- दारं [-1, ----------- मूलं [१८४-१८५] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१८४-१८५]
गाथा:
रिणामोऽधुना गतिपरिणाममाह-'गइपरिणामे णं भंते' इत्यादि, द्विविधो गतिपरिणामः, तद्यथा-स्पृशद्गति-19 |परिणामोऽस्पृशद्गतिपरिणामश्च, तत्र वस्त्वन्तरं स्पृशतो यो गतिपरिणामः स स्पृशद्गतिपरिणामो, यथा-'ठिकरि-18 काया जलस्योपरि प्रयत्नेन तिर्यप्रक्षिप्तायाः, सा हि तथा प्रक्षिप्ता सती अपान्तराले जलं स्पृशन्ती २ गच्छति, बालजनप्रसिद्धमेतत् , तथाऽस्पृशतो गतिपरिणामोऽस्पृशतिपरिणामः, यद्वस्तु न केनापि सहापान्तराले संस्पर्शनमनुभवति तस्यास्पृशतिपरिणाम इति भावः, अन्ये तु व्याचक्षते-स्पृशद्गतिपरिणामो नाम येन प्रयत्नविशेषात् |क्षेत्रप्रदेशान् स्पृशन् गच्छति, अस्पृशद्गतिपरिणामो येन क्षेत्रप्रदेशानस्पृशन्नेव गच्छति, तन्न बुद्धामहे, नभसः सर्वKाच्यापितया तत्प्रदेशसंस्पर्शव्यतिरेकेण गतेरसम्भवात् , बहुश्रुतेभ्यो वा परिभावनीयं, अत्रैव प्रकारान्तरमाह
'अहवा दीहगतिपरिणामे य रहस्सगइपरिणामे य' इति, अथवेति प्रकारान्तरे अन्यथा वा गतिपरिणामो द्विविधः, तद्यथा-दीर्घगतिपरिणामो इस्वगतिपरिणामश्च, तत्र विप्रकृष्टदेशान्तरप्राप्तिपरिणामो दीर्घगतिपरिणामस्तद्विपरीतो। इखगतिपरिणामः २, परिमण्डलादिसंस्थानविशेषाः खण्डभेदादयश्च प्रागेव व्याख्याता इति न भूयो व्याख्यायन्ते, ३, अगुरुलघुपरिणामो भाषादिपुद्गलानां 'कम्मगमणभासाई एयाई अगुरुलहुयाई' [कर्ममनोभाषाद्रव्याण्येतान्यगुरुलघू-10
नि] इति वचनात्, तथा अमूर्तद्रव्याणां वाऽऽकाशादीनां, अगुरुलघुपरिणामग्रहणमुपलक्षणं तेन गुरुलघुपरिणामोMऽपि द्रष्टव्यः, स चौदारिकादिद्रव्याणां तैजसद्व्यपर्यन्तानामयसेयः, "ओरालियवेउविय आहारगतेय गुरुलहू दवा"
दीप अनुक्रम [४०८-४१२]
~581~