________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [...१८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[...१८०
'बेईदियाण'मित्यादि, द्वीन्द्रियाणा सम्बन्धिमिरौदारिकशरीरर्वद्धैः प्रतरमसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियते, अत्र प्रतरमिति क्षेत्रतः परिमाणं उत्सलिण्यवसर्पिणीभिरिति कालतः, किंप्रमाणेन पुनः क्षेत्रेण कालेन वा अपहरणमत आह-'अंगुलपयरस्स आवलियाए य असंखेज्जइभागपलिभागेण ति, अङ्गुलमात्रस्य प्रतरस्य-एकप्रा-18 देशिकश्रेणिरूपस्य असङ्ख्येयभागप्रतिभागप्रमाणेन खण्डेन, इदं क्षेत्रविषयं परिमाणं, कालपरिमाणमावलिकाया असङ्खयेयभागप्रतिभागेनासंख्येयतमेन प्रतिभागेन, किमुक्तं भवति ?-एकेन द्वीन्द्रियेणाकुलासंख्येयभागप्रमाणे खण्डमावलिकाया असङ्ख्येयतमेन भागेनापहियते, द्वितीयेनापि तावत्प्रमाणं खण्डं तावता कालेन, एवमपहियमाणं प्रतरं वीन्द्रियैः सर्वैरसङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिः सकलमपहियते इति, मुक्तान्यौषिकमुक्तवत् , तेजसकामणानि बद्धानि बद्धौदारिकवत् , वैक्रियाणि पुनर्बद्धानि तेयां न सन्ति, मुक्तान्यौधिकमुक्तवत्, एवं त्रिचतुरिन्द्रियाणामपि । तिर्यकपञ्चेन्द्रियाणां बद्धानि मुक्तानि चौदारिकाणि द्वीन्द्रियवत. वैक्रियाणि बद्धानि असाधेयानि, तत्र कालतः18 परिमाणचिन्तायामसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतोऽसङ्ख्येयासु श्रेणिषु यावन्तः आकाशप्रदेशास्तावत्प्रमाणानि, तासां च श्रेणीनां परिमाणं प्रतरस्थासङ्घयेयो भागः, तथा चाह-'जहा असुरकुमाराण'मिति, यथा असुरकुमाराणां तथा वक्तव्यं, नवरं विष्कम्भसूचिपरिमाणचिन्तायां तत्राङ्गुलप्रमाणवर्गमूलस्य सङ्ख्ययो भाग उक्त इह त्वसङ्ख्ययो भागो वक्तव्यः, किमुक्तं भवति ?-अङ्गुलमात्रक्षेत्रप्रदेशराशेः यत्प्रथमं वर्गमूलं तस्थासङ्खये यतमे
दीप अनुक्रम [४०४]
~561~