________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------ उद्देशक: [-], ------------- दारं [-], ------------ मूलं [१७८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१७८]
रीरापहारे सामस्त्येनासङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, किमुक्तं भवति ?-असङ्ख्येयासूत्सर्पिण्यवसाप्पि-15 णीषु यावन्तः समयास्तावत्प्रमाणानि, क्षेत्रतोऽसलबेयाः श्रेणयः, असलयेयासु श्रेणिषु यावन्त आकाशप्रदेशास्तावप्रमाणानीति भावः, अथ प्रतरेऽपि सकले असङ्ख्येयाः श्रेणयो भवन्ति प्रतरस्यार्द्धभागे त्रिभागादौ च ततः कियसङ्ख्याकास्ताः श्रेणय इलाशङ्कायां विशेषनिर्धारणार्थमाह-प्रतरस्थासङ्ख्येयभागः, किमुक्तं भवति ?-प्रतरस्यासयेयतमे भागे यावत्यः श्रेणयस्तावत्यः परिगृह्यन्ते, इदमन्यद्विशेषतरपरिमाणं-'तासि णं सेढीणं विक्खंभसूई' इत्यादि, तासां श्रेणीनां विष्कम्भतो-विस्तारमधिकृत्य सूचिः-एकप्रादेशिकी श्रेणिरङ्गुलप्रथमवर्गमूलं द्वितीयवर्गमूलगुणितं, ॥ इयमत्र भावना-इह प्रज्ञापकेन घनीकृतः सप्तरज्जुप्रमाणो लोकः पट्टिकादौ स्थापनीयः, श्रेणिश्च रेखाकारेण दर्श|नीया, दर्शयित्वा चैवं प्रमाण वक्तव्य-अलप्रमाणमात्रस्य प्रदेशस्य क्षेत्रस्य यावान् प्रदेशराशिस्तस्यासोयानि वर्गमूलानि भवन्ति, तद्यथा-प्रथम वर्गमूलं तस्यापि यद्वर्गमूलं तद् द्वितीयं वर्गमूलं तस्यापि यद् वर्गमूलं तत् तृतीयं वर्गमूलं एवमसङ्ख्येयानि वर्गमूलानि भवन्ति, तत्र प्रथमं यद्वर्गमूलं तद् द्वितीयेन वर्गमूलेन गुण्यते, गुणिते च सति यावन्तः प्रदेशा भवन्ति तावत्प्रदेशात्मिका सूचिर्बुद्धया क्रियते, कृत्वा च विष्कम्भतो दक्षिणोत्तरायततया स्थापनीया, तया च स्थाप्यमानया यावत्यः श्रेणयः स्पृश्यन्ते तावत्यः परिगृधन्ते, तत्रेदं निदर्शनम्-अङ्गुलमात्रक्षेत्रप्रदेशराशिस्तत्त्वतोऽसङ्ख्यातोऽप्यसत्कल्पनया पट्रपञ्चाशदधिके द्वे शते कल्प्येते, तयोः प्रथम वर्गमूलं षोडश द्वितीयं
दीप अनुक्रम [४०२]
~553~