SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [8] दीप अनुक्रम [१८] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) पदं [१]. उद्देशक: [-], दारं [-], ----- मूलं [९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः च, तत्र द्रव्येन्द्रियाणि निर्वृत्त्युपकरणरूपाणि तानि च सविस्तरं नन्द्यध्ययनटीकायां व्याख्यातानीति न भूयो व्याख्यायन्ते, भावेन्द्रियाणि क्षयोपशमोपयोगरूपाणि तानि चानियतानि, एकेन्द्रियाणामपि क्षयोपशमोपयोगरूपभावेन्द्रियपञ्चकसम्भवात् केषाञ्चित्तत्फलदर्शनात्, तथाहि त्रकुलादयो मत्तकामिनीगीतध्वनिश्रवणसविलासकटाक्षनिरीक्षणमुखक्षिप्तसुरागण्डूषगन्धा घ्राणरसाखादस्तनाद्यवयव स्पर्शनतः प्रमोदभावेनाकालक्षेपमुपलभ्यन्ते पुष्कफलानि प्रयच्छन्तः, उक्तं च- "जं किर बउलाईणं दीसह सेसिन्दिओवलम्भोऽवि । तेणऽत्थि तदावरणक्खओवसमसम्भवो तेसिं ॥ १ ॥" ततो न भावेन्द्रियाणि लौकिकव्यवहारपथावतीर्णै केन्द्रियादिव्यपदेशनिबन्धनं, किन्तु द्रव्येन्द्रियाणि, तथाहि येषामेकं बाह्यं द्रव्येन्द्रियं स्पर्शनलक्षणमस्ति ते एकेन्द्रियाः येषां द्वे ते द्वीन्द्रियाः एवं यावद्येषां पञ्च ते पञ्चेन्द्रियाः, आह च-"पंञ्चिदिओवि बउलो नरोध सङ्घविसयोवलम्भाओ । तवि न भण्णइ पञ्चिन्दिओत्ति बज्झिन्दिया भावा ॥ १ ॥ " सेकिन्तं एगेन्दियसंसार समावण्णजीवपण्णवणा ?, एगेन्दियसंसारसमावण्णजीवपण्णवणा पञ्चविद्या पन्नत्ता, तंजहा पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सइकाइया ( सू०१०) अथ का सा एकेन्द्रिय संसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-एकेन्द्रियसंसारसमापन्न जीवप्रज्ञापना पञ्चविधा १ यत्किल बकुलादीनां दृश्यते शेषेन्द्रियोपलम्भोऽपि । तेनास्ति तदावरणक्षयोपशमसंभवस्तेषाम् ॥ १ ॥ २ पञ्चेन्द्रियोऽपि वकुलो नर इव सर्वविषयोपलम्भात् । तथापि न भण्यते पञ्चेन्द्रिय इति बाह्येन्द्रियाभावात् ॥ १ ॥ For Parts Only ~ 51~ nary or
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy