________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------ उद्देशक: -1, ----------- दारं [-], ----------- मूलं [१५७-१५८] + गाथा:(१-५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१५७-१५८]
गाथा:
9090saceaepene3870
भङ्गाः प्रतिषेध्या विधेयाश्चोक्तास्तथा संख्यातप्रदेशके असंङ्ख्यातप्रदेशके च प्रत्येकं वक्तव्याः, तथा चाह-संखेजपए-18 सिए असंखेजपएसिए' इत्यादि, पाठसिद्धं, नवरमियं सर्वत्र भावना-यस्मादेकादिष्वप्याकाशप्रदेशेष्वष्टप्रदेशकादीनां स्कन्धानामवगाहो भवति तथा(तो)घटन्ते यथोक्ताः सर्वेऽपि भङ्गाः, नन्वसंख्यातप्रदेशात्मकस्यानन्तप्रदेशात्मकस्य |च स्कन्धस्य कथमेकस्मिन्नाकाशप्रदेशेऽवगाहः १, उच्यते, [तथा] तथामाहात्म्यात् , न चैतदनुपपन्नं, युक्तितः सम्भाव्यमानत्वात् , तथाहि-अनन्तानन्ता द्विप्रदेशकाः स्कन्धा यावदनन्तानन्ताः संख्येयप्रदेशात्मकाः अनन्तानन्ता असंख्येयप्रदेशात्मकाः स्कन्धा अनन्तानन्ता अनन्तप्रदेशात्मकाः, लोकश्च सर्वात्मनाऽप्यसंख्येयप्रदेशात्मकस्ते च सर्वेऽपि लोक एवायगाढा नालोके, ततोऽवसीयते सन्त्येकस्सिन्नप्याकाशप्रदेशेऽवगाढा बहवः परमाणवो बहवो। द्विप्रदेशकाः स्कन्धाः यावद्वहवोऽनन्तप्रदेशात्मकाः स्कन्धाः, तथा चात्र पूर्वसूरयः प्रदीपदृष्टान्तमुपवर्णयन्ति-यथैकस्य प्रदीपस्य गृहमध्ये प्रज्वलितस्य प्रभापरमाणवः सर्वमेव गृहं प्रामुवन्ति तथा प्रत्येक प्रदीपसहस्रस्थापि, न च । प्रतिप्रदीपं प्रभापरमाणवो न भिन्नाः, प्रतिप्रदीपे पुरुषस्य मध्यस्थितस्य छायादिदर्शनात् , ततो यथते स्थूला अपि प्रदीपप्रभापरमाणवः एकस्मिन्नप्याकाशप्रदेशे बहवो मान्ति तथा परमाण्वादयोऽपीति न कश्चिद्दोषः, आकाशस्य तथा तथाऽवकाशदानखभावतया वस्तूनां च विचित्रपरिणमनखभावतया विरोधाभावात् , सम्प्रति परमाण्वादिषु ये भङ्गा ग्रायाः ये च षष्ठादिषु न पाह्यास्तत्सङ्घाहिकाः संग्रहणिगाथा आह-'परमाणुंमि य तइओ' इत्यादि,
दीप अनुक्रम [३६४-३७१]
CEScenetटिकटहर
~ 487~