________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------ उद्देशक: -1, ----------- दारं [-], ----------- मूलं [१५७-१५८] + गाथा:(१-५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१५७-१५८]
+ गाथा:
स्थापना-सर्वसंकलनया पडूविंशतिः । अत्र निर्वचनमाह-'परमाणुपोग्गले नो परमे' इत्यादि, परमाणुपुद्गलचरमो न भवति, चरमत्वं मन्यापेक्षं. न चान्यदपेक्षणीयमस्ति तस्य, अविवक्षणात्, न च सांशः परमाणुयेनांशापेक्षया चरमत्वं प्रकल्प्येत, निरवयवत्वात् (तस्य), तस्मान्न चरमो, नाप्यचरमः, निरचयवतया मध्यत्वायोगात्, किन्त्ववक्तव्यः, चरमाचरमव्यपदेशकारण[तः] शून्यतया चरमशब्देनाचरमशब्देन वा व्यपदेष्टुमशक्यत्वात् , वक्तुं शक्यं हि वक्तव्यं, यत्तु चरमशब्देन अचरमशब्देन वा खखनिमित्तशून्यतया वक्तुमशक्यं तदवक्तव्यमिति स्थापना-शेपास्तु मङ्गाः प्रतिषेध्याः, परमाणौ तेषामसंभवात् , वक्ष्यति च-"परमाणुमि य तइओ" अस्थायमर्थः-परमाणी-परमाणुचिन्तायां तृतीयो भङ्गः परिग्रायः, शेषास्तु निरवयवत्वेन प्रतिषेध्याः । 'दुपएसिए णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह-'सिय चरमे नो अचरमे सिय अवत्तवए' इत्यादि, द्विप्रदेशिकः स्कन्धः स्यात्-कदाचित् चस्मः, कथमिति चेत् , उच्यते, इह यदा द्विप्रदेशिकः स्कन्धो द्वयोराकाशप्रदेशयोरवगाढो भवति समश्रेण्या व्यवस्थिततया, स्थापना तदा एकोऽपि परमाणुरपरपरमाण्यपेक्षया चरमः, अपरोऽप्यपरपरमाण्यपेक्षया चरम इति चरमः, अचरमस्तु न भवति, सर्वद्रव्याणामपि केवलाचरमत्वस्यायोगात्, यदा तु स एव द्विप्रदेशिकः स्कन्धः एकस्मिन्नाकाश-2 प्रदेशे अवगाहते तदा स तथाविधैकत्वपरिणामपरिणततया परमाणवत चरमाचरमव्यपदेशकारणशून्यत्वान्न चरम-181 शब्देन व्यपदेष्टुं शक्यते नाप्यचरमशब्देनेति अवक्तव्यः, शेषास्तु भङ्गाः प्रतिषेध्याः, तथा च वक्ष्यति "पढमो
दीप अनुक्रम [३६४-३७१]
~ 473~