SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं वृत्ति:) पदं [८], ----------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१४७-१४८] (१५) प्रत सूत्रांक [१४७ -१४८] तिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्य व्याख्याताः, एकेन्द्रियाणां त्वेता अव्यक्तरूपा अवगन्तव्याः, नैरयिकसूत्रे 'ओसन्नकारणं पडुप भयसन्नोवउत्ता' इति, तत्रोत्सन्नशब्देन बाहुल्यमुच्यते कारणशब्देन च बाखं कारणं, ततोऽयमर्थःबायकारणमाश्रित्य नैरयिका बाहुल्येन भयसन्जोपयुक्ताः, तथाहि-सन्ति तेषां सर्वतः प्रभूतानि परमाधार्मिकाय:कवल्लीशक्तिकुन्तादीनि भयोत्पादकादीनि, 'संतइभावं पडुच' इति इहानन्तरोऽनुभवभावः सन्ततिभाव उच्यते, तत। आन्तरमनुभवभावमपेक्ष्य नैरयिका आहारसजोपयुक्ता अपि यावत्परिग्रहसज्ञोपयुक्ता अपि । अस्पबदुत्वचिन्तायां सर्वस्तोका मैथुनसंज्ञोपयुक्ताः, नैरयिका हि चक्षुर्निमीलनमात्रमपि न मुखिनः केवलमनवरतमतिप्रबलदुःखाग्निना संतप्यमानशरीराः, उक्तं च-"अच्छिनिमीलणमेत्तं नथि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं अहोनिसंपञ्चमाणाणं ॥१॥" ततो मैथुनेच्छा नैतेषां भवतीति, यदि परं क्वचित्कदाचित्केषांचित् भवति साऽपि च स्तोककाला इति प्रच्छासमये स्तोका मैथुनसजोपयुक्ताः, तेभ्यः सोयगुणा आहारसम्जोपयुक्ताः, दु:खितानामपि प्रभूतानां| प्रभूतकालं चाहारेच्छाया भावतः पृच्छासमये अतिप्रभूतानामाहारसज्ञोपयुक्तानां संभवात् , तेभ्यः सङ्ख्येयगुणाः परिग्रहसम्जोपयुक्ताः, आहारेच्छा हि देहायमेव भवति परिग्रहेच्छा तु देहे प्रहरणादिपु च, प्रभूततरकालावस्थायिनी च परिग्रहेच्छा, ततः पृच्छासमयेऽतिप्रभूततराः परिग्रहसज्ञोपयुक्ता अवाप्यन्ते इति भवन्ति पूर्वेभ्यः सहयेयगुणाः, १ अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेव प्रतिबद्धम् । नरके नैरयिकाणामहर्निशं पच्यमानानाम् ॥ १ ॥ दीप अनुक्रम [३५४-३५५] ~449~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy