SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६-७] दीप अनुक्रम [१५-१६] प्रज्ञापनायाः मल य० वृत्तौ. ॥ १९ ॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) उद्देशक: [-], दारं [-] मूलं [६,७] पदं [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पान्तरालेषु तत्र ये जातिस्मरणादिनाऽपवर्गमार्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदसिद्धाः २ तथा तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धाः ३ सामान्यकेवलिनः सन्तो ये सिद्धास्तेऽतीर्थकर सिद्धाः ४ तथा खयंबुद्धाः सन्तो ये सिद्धास्ते खयम्बुद्धसिद्धाः ५, प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः ६, अथ स्वयम्बुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः १, उच्यते, बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि - स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, खयमेव - वाप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः स्वयम्बुद्धा इति व्युत्पत्तेः ते च द्विधा - तीर्थकरास्तीर्थकरव्यतिरिक्ताश्च, इह तीर्थकरव्यतिरिक्तैरधिकारः, आह च नन्यध्ययन चूर्णिकृत् - 'ते दुविधा सयंबुद्धा-तित्थयरा तित्थयरवइरित्ता य, इह वहरितेहिं अहिगारो' इति । प्रत्येकबुद्धास्तु वायप्रत्ययमपेक्ष्य, प्रत्येकं वा वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धा इति व्युत्पत्तेः तथा च श्रूयते वाह्यप्रत्ययसापेक्षा करकण्ड्वादीनां बोधिः, वहिः प्रत्ययमपेक्ष्य च ते बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति, न गच्छ्वासिन इव संहताः, आह च नन्द्यध्ययनचूर्णिकृत्-पत्तेयं वाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः, बहिष्प्रत्ययं प्रति बुद्धानां च पत्तेयं नियमा विहारो जम्हा तम्हा य ते पत्तेयबुद्धा' इति, स्वयम्बुद्धानामुपधिर्द्वादशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा - जघन्यतस्तथोत्कर्षतश्च तत्र जघन्यतो द्विविधः, उत्कर्षतो नवविधः प्रावरणवर्जः, उक्तं च- "पत्तेयबुद्धाणं जहन्त्रेणं दुबिहो उक्कोसेणं नवविहो नियमा पाउरणवज्जो भवइ" इति, तथा स्वयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा, यदि For Parts Only ~42~ १ प्रज्ञाप नापदे न्तरसि जपज्ञा. (सू. ७) ॥ १९ ॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy