SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], -------------- दारं [२६], --------------- मूलं [९०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [९०] दीप अनुक्रम [२९४] इन्द्रियोपयोगस्य लभ्यमानत्वात् , तेभ्योऽनाकारोपयोगोपयुक्ताः सङ्ख्येयगुणाः, इन्द्रियोपयोगेषु नोइन्द्रियोपयोगेषु चानाकारोपयोगस्य लभ्यमानत्वात् , तेभ्यः साकारोपयुक्ताः सञ्जयेयगुणाः, इन्द्रियोपयोगेषु नोइन्द्रियोपयोगेषु च साकारोपयोगकालस्य बहुत्वात् , तेभ्यो नोइन्द्रियोपयोगोपयुक्ता विशेषाधिकाः, नोइन्द्रियानाकारोपयुक्तानामपि तत्र प्रक्षेपात् , अत्र विनेयजनानुग्रहार्थमसभावस्थापनया निदर्शनमुच्यते-इह सामान्यतः किल साकारोपयुक्ता द्विनवत्यधिकं शतं १९२, ते च किल द्विधा-इन्द्रियसाकारोपयुक्ता नोइन्द्रियसाकारोपयुक्ताच, तत्रेन्द्रियसाकारोपयुक्ताः किलातीव स्तोका इति विंशतिसङ्ख्याः कल्प्यन्ते, शेषं द्विसप्तत्युत्तरशतं १७२ नोइन्द्रियसाकारोपयुक्ताः,8 नोइन्द्रियानाकारोपयुक्ताश्च द्विपञ्चाशत्कल्पाः, ततः सामान्यतः साकारोपयुक्तेभ्यः इन्द्रियसाकारोपयुक्तेषु विंशतिक-I ल्पेष्वपनीतेषु द्विपञ्चाशत्कल्पेषु अनाकारोपयुक्तेषु तेषु मध्ये प्रक्षिप्तेषु द्वे शते चतुर्विशत्यधिके भवतः, ततः साकारो-18 पयुक्तेभ्यो नोइन्द्रियोपयुक्ता विशेषाधिकाः, तेभ्योऽसातवेदका विशेषाधिकाः, इन्द्रियोपयुक्तानामप्यसातवेदकत्वात् , तेभ्योऽसमवहता विशेषाधिकाः, सातवेदकानामप्यसमवहतत्वभावात, तेभ्यो जागरा विशेषाधिकाः, सम-18 वहतानामपि केषांचिजागरत्वात्, तेभ्यः पर्याप्ताः विशेषाधिकाः, सुप्तानामपि केपाश्चित्पर्याप्तत्वात् , सुप्ता हि पर्याप्सा अपि भवन्ति जागरास्तु पर्याप्सा एवेति नियमः, तेभ्योऽपि पर्याप्तेभ्यः आयुःकर्मबन्धकाः विशेषाधिकाः, अपर्याप्तानामप्यायुःकर्मबन्धकत्वभावात्, इदमेवाल्पबहुत्वं विनेयजनानुग्रहाय स्थापनाराशिभिरुपदश्यते-इह द्वे ~317~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy