________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशकः [-], -------------- दारं [२२], -------------- मूलं [७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सत्राक
[७९]
दीप अनुक्रम [२८३]
धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकाय एते त्रयोऽपि द्रव्यार्थतया-द्रव्यमेवार्थो द्रव्यार्थः तस्य भावो द्रव्यार्थता तया द्रव्यरूपतया इत्यर्थः तुल्याः-समानाः, प्रत्येकमेकसङ्ग्याकत्वात् , अत एव सर्वस्तोकाः, तेभ्यो जीवास्तिकायो द्रव्यार्थतया अनन्तगुणः, जीवानां प्रत्येकं द्रव्यत्वात् तेषां च जीवास्तिकाये अनन्तत्वात् , तस्मादपि । पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, कथमिति चेत् , उच्यते, इह परमाणुद्विप्रदेशकादीनि पृथक पृथक् द्रव्याणि, तानि च सामान्यतखिधा, तद्यथा-प्रयोगपरिणतानि मिश्रपरिणतानि विश्रसापरिणतानि च, तत्र प्रयोगपरिणतान्यपि तावज्जीवेभ्योऽनन्तगुणानि, एकैकस्य जीवस्यानन्तैः प्रत्येक ज्ञानावरणीयदर्शनावरणीयादिकर्मपुद्गलस्कन्धैरावेष्टित(परिवेष्टित) त्वात् , किं पुनः शेषाणि ?, ततः प्रयोगपरिणतेभ्यो मिश्रपरिणतान्यनन्तगुणानि, तेभ्यो विश्र|सापरिणतान्यनन्तगुणानि, तथा चोक्तं प्रज्ञप्ती-"सबथोवा पुग्गला पयोगपरिणया मीसपरिणया अनंतगुणा वीससापरिणया अनंतगुणा" इति ततो भवति जीवास्तिकायात् पुदलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, तस्माद-10 प्यद्धासमयो द्रव्धार्थतयाऽनन्तगुणः, कथमिति चेत् , उच्यते, इहैकस्यैव परमाणोरनागते काले तत्र द्विप्रदेशिकत्रिप्रदेशकयावत्दशप्रदेशिकसङ्ख्यातादेशिकासयातप्रदेशिकानन्तप्रदेशिकस्कन्धान्तःपरिणामितया अनन्ता भाविनः |संयोगा पृथक्पृथक्कालाः केवलवेदसोपलब्धाः, यथा चैकस्य परमाणोस्तथा सर्वेषां प्रत्येकं द्विप्रदेशादिस्कन्धानां || चानन्ताः संयोगाः पुरस्कृताः पृथक्पृथक्काला उपलब्धाः, सर्वेषामपि मनुष्य लोक क्षेत्रान्तर्वर्तितया परिणाम
92629020302023293rase
SAREarathinhalatana
Hainmurary.om
~285~