SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ ५७ ] दीप अनुक्रम [२६१] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) उद्देशक: [], दारं [२], पदं [३], मूलं [५७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्रदेशरा शिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभः प्रदेशास्तावत्प्रमाणत्वात्, तेभ्यो देवा असङ्ख्येयगुणाः, व्यन्तराणां ज्योतिषकाणां च प्रत्येकं प्रतरासङ्ख्धेय भागवर्तिश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यः सिद्धा अनन्तगुणाः, अभव्येभ्योऽनन्तगुणत्वात्, तेभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् । तदेवं नैरयिकतिर्यग्योनिकमनुष्यदेवसिद्धरूपाणां पञ्चानामल्पबहुत्वमुक्तम्, इदानीं नैरयिकतियग्योनिकतैर्यग्योनिकी मनुष्य मानुषीदेवदेवीसिद्धलक्षणानामष्टानामल्पबहुत्वमभिधित्सुरिदमाह - सर्वस्तोका मानुष्यो -मनुष्यस्त्रियः, सङ्घयेय कोटीकोटीप्रमाणत्वात्, ताभ्यो मनुष्या असङ्खधेयगुणाः, इह मनुष्या इति संमूर्च्छनजा अपि गृह्यन्ते वेदस्थाविवक्षणात् ते च संमूर्च्छनजा वान्तादिषु नगर निर्द्धमनान्तेषु जायमाना असङ्खयेयाः प्राप्यन्ते, तेभ्यो नैरयिका असङ्खयेयगुणाः, मनुष्या हि उत्कृष्टपदेऽपि श्रेण्यसङ्ख्येयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते नैरथि - | कास्त्वङ्गुलमात्र क्षेत्र प्रदेशराशिसत्कतृतीय वर्गमूलगुणितप्रथमवर्गमूलप्रमाण श्रेणिगता काशप्रदेशराशिप्रमाणाः ततो भवन्त्यसङ्ख्येयगुणाः, तेभ्यस्तिर्यग्योनिकाः स्त्रियोऽसङ्ख्येयगुणाः, प्रतरासङ्घषेयभागवयैसङ्खवेय श्रेणिनभः प्रदेशराशिप्रमाणत्वात्, ताभ्योऽपि देवा असधेयगुणाः, असङ्ख्ये यगुणप्रतरासङ्घयेय भाग वर्त्त्य सङ्ख्पेय श्रेणिगत प्रदेशराशिमानत्वात्, तेभ्योऽपि देव्यः सङ्खधेयगुणाः, द्वात्रिंशद्गुणत्वात्, ताभ्योऽपि सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः, अत्र युक्तिः प्रागेवोक्ता ॥ गतं गतिद्वारम् ॥ इदानीं इन्द्रियद्वारमधिकृत्याह Eucation Internationa For Parts Only ~ 243~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy