SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३८] दीप अनुक्रम [१९१] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [१], उद्देशक: [-] दारं [-], मूलं [३८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः इति पाठः, यदिवा 'वानमन्तराः' इति पदसंस्कारः, तत्रेयं व्युत्पत्तिः वनानामन्तराणि वनान्तराणि तेषु भवाः वानमन्तराः, पृषोदरादित्वाद् उभयपदान्तरालवर्तिमकारागमः, तथा द्योतयन्ति - प्रकाशयन्ति जगदिति ज्योतींषिविमानानि, औणादिकी शब्दव्युत्पत्तिः तेषु भवा ज्योतिष्काः “अध्यात्मादिभ्यः" इति इकण्, तत “इवर्णोवर्णदोसिसः" इति इकण आदेरिकारस्य लोपः, अनभिधानाच्च वृद्ध्यभावः, यदिवा द्योतयन्ति - शिरोमुकुटोपगूहिभिः प्रभामण्डलकल्पैः सूर्यादिमण्डलैः प्रकाशयन्तीति ज्योतिषो देवाः सूर्यादयः, तथाहि सूर्यस्य सूर्याकारं मुकुटाग्रमागे चिह्नं चन्द्रस्य चन्द्राकारं नक्षत्रस्य नक्षत्राकारं ग्रहस्य ग्रहाकारं तारकस्य तारकाकारं तैः प्रकाशयन्तीति, आह च तस्वार्थ भाष्यकृत् - " द्योतयन्तीति ज्योतींषि - विमानानि तेषु भवा ज्योतिष्काः, यदिवा ज्योतिषो देवाः ज्योतिष एव ज्योतिष्काः, मुकुटैः शिरोमुकुटोपगूहिभिः प्रभामण्डलैरुज्वलैः सूर्यचन्द्रग्रहनक्षत्रतारकाणां मण्डलैर्यथाखं चिहेर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति । तथा विविधं मान्यन्ते - उपभुज्यन्ते पुण्यवद्भिर्जीवैरिति विमानानि तेषु भवा वैमानिकाः ॥ सम्प्रति एतेषामेव क्रमेण भेदानभिधित्सुराह— 'से किं तं भवणवासी' इत्यादि, असुराश्च ते कुमाराश्च असुरकुमाराः, एवं नागकुमारा इत्याद्यपि भावनीयम्, अथ कस्मादेते कुमारा इति व्यपदिश्यन्ते १, उच्यते, कुमारवच्चेष्टनात्, तथाहि — कुमारा इवैते सुकुमारा मृदुमधुरललितगतयः शृङ्गाराभिप्रायकृत विशिष्टविशिष्टतरोत्तररूपक्रियाः कुमारवबोद्धतरूपवेष भाषाभरणप्रहरणावरणयानवाहनाः कुमारवचोल्व For Pale Only ~143~ nerary.org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy