________________
आगम
(१५)
प्रत
सूत्रांक
[३७]
+
गाथा:
दीप
अनुक्रम
[१६६
-१९०]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [१].
उद्देशक: [-], दारं [-], मूलं [... ३७] + गाथा: ( १०८-१२८) मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१५] उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्रज्ञापना
याः मल
य० वृत्तौ.
॥ ६० ॥
सहणा' इति सम्यक्त्वश्रद्धानं, एतैः परमार्थसंस्तवादिभिः सम्यक्त्वमस्तीति श्रद्धीयते इत्यर्थः । अस्य च दर्शनस्याचारा अष्टौ, ते च सम्यक् परिपालनीयाः, तदतिक्रमेण दर्शनस्याप्यतिक्रमभावात्, अतस्तानुपदर्शयितुमाह-'निस्संकिय' इत्यादि, शङ्कनं शङ्कितं, देशशङ्का सर्वशङ्का चेत्यर्थः, निर्गतं शङ्कितं यस्मादसौ निःशङ्कितः, देशसर्वशङ्कारहित इति भावार्थ:, तत्र देशशङ्का - समाने जीवत्वे कथमेको भव्यः अपरस्त्वभव्य इति ?, सर्वशङ्का - प्राकृतनिबन्धत्वात्सकलमेवेदं प्रवचनं परिकल्पितं भविष्यतीति, न चेयं देशशङ्का सर्वशङ्का वा युक्ता, यत इह द्विविधा भावाः, तद्यथा-हेतुग्राह्या अहेतुप्राश्वाश्च तत्र हेतुग्राह्या जीवास्तित्वादयः, तत्साधकप्रमाणसद्भावात्, अहेतुग्राह्या अभव्यत्वादयः, अस्मदाद्यपेक्षया तत्साधक हेतूनामसंभवात् प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति, प्राकृतोऽपि च निबन्धः प्रवचनस्य वालाद्यनुग्रहार्थः, उक्तं च- "बालश्रीमूढमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्वज्ञैः सिद्धान्तः प्राकृतः स्मृतः ॥ १ ॥" अपि च- प्राकृतोऽपि निबन्धः प्रवचनस्य दृष्टेष्टाविरोधी अतः कथमवान्तरपरिकल्पनाशङ्का ?, सर्वज्ञमन्तरेणान्यस्य दृष्टेष्टाविरोधिवचनासंभवात् निःशङ्कित इति जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्राधान्यविवक्षायां दर्शनाचार उच्यते एतेन दर्शनदर्शनिनोः कथंचिदभेदमाह, एकान्तभेदे तु अदर्शनिन इव तत्फलायोगतो मोक्षाभावप्रसङ्गः, एवमुत्तरेष्वपि त्रिषु पदेषु भावना कार्या, तथा 'निष्काङ्क्षित' इति, काङ्क्षणं काह्नितं निर्गतं काङ्क्षितं यस्मादसौ निष्काङ्क्षितः, देशसर्वकाङ्क्षारहित इत्यर्थः, तत्र देशकाङ्क्षा-एक दिगम्बरादिदर्शनम
Educatin internation
For Parts Only
~124~
१ प्रज्ञाप
नापदे मनुष्यप्रज्ञा. (सू.३७)
॥ ६० ॥