________________
आगम
(१५)
प्रत
सूत्रांक
[ ३४९ ]
+
गाथा
दीप
अनुक्रम [६२१
-६२२]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
मूलं [ ३४९ ]
उद्देशक: [-] दारं [-] .. आगमसूत्र [१५], उपांग सूत्र [४] प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [ ३६ ],
मुनि दीपरत्नसागरेण संकलित..
परित्यज्य च तस्मिन्नेव समये कोशबन्धविमोक्षलक्षणसहकारिसमुत्थख भावविशेषादेरण्डफलमिव भगवानपि कर्मसम्बन्धविमोक्षणसहकारिसमुत्थख भावविशेषादूर्द्ध लोकान्ते गत्वेति सम्बन्धः, उक्तं च- " एरण्डफलं च जहा बंधच्छेदेरियं दुयं जाति । तह कम्मबंधणछेदणेरितो जाति सिद्धोवि ॥ १ ॥" कथं गच्छतीत्यत आह- 'अविग्रहेण ' विग्रहस्याभावोऽविग्रहः तेन एकेन समयेनास्पृशन्, समयान्तरप्रदेशान्तरास्पर्शनेनेत्यर्थः, ऋजुश्रेणिं च प्रतिपन्नः, एतदुक्तं भवति यावत्खाकाशप्रदेशेष्विहावगाढस्तावत एव प्रदेशानूर्ध्वमृजुश्रेण्याऽवगाहमानो विवक्षिताच्च समयादन्यत् समयान्तरमस्पृशन् गत्वा, तथा चोक्तमावश्यकचूर्णी- "जत्तिए जीवोऽवगाढो तावइयाए ओगाहणाए उ उज्जुगं गच्छति न वंकं, बिइयं च समयं न फुसइ" इति भाष्यकारोऽप्याह - "रिउसेटिं पडिवन्नो समयपएसंतरं अफुसमाणो । एगसमपण सिज्झइ अह सागारोव उत्तो सो ॥ १ ॥" इत्थमूर्ध्वं गत्वा किमित्याह - साकारोपयुक्तः सन् सिद्ध्यति निष्ठितार्थो भवति, सर्वा हि लब्धयः साकारोपयोगोपयुक्तस्य उपजायते नानाकारोपयुक्तस्य, सिद्धिरप्येषा सर्वन्ध्युत्तमा लब्धिरिति साकारोपयोगोपयुक्तस्योपजायते, आह च - "सबाओ लद्धीओ जं सागारोवओगलाभाओ । तेणेह सिद्धिलद्धी उप्पजइ तदुवउत्तस्स ॥ १ ॥” तदनन्तरं तु क्रमेणोपयोगप्रवृत्तिः । तदेवं यथा केवली सिद्धो भवति तथा प्रतिपादितमिदानीं सिद्धा यथाखरूपास्तत्रावतिष्ठन्ते तथा प्रतिपादयति - ते णं तत्थ सिद्धा भवतीत्यादि, ते-अनन्तरोक्तक्रमसम्भूता णमिति वाक्यालङ्कारे तंत्र - लोकान्ते सिद्धा भवन्ति, अश
For Parts Only
~1223 ~