________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [३४४]
दीप अनुक्रम [६१४]
नानगारो न गृहस्थो नापि पाखण्डी, स च नियमाद् भावितात्मा विशिष्टशुभाध्यवसायकलितत्वात् , अन्यथा केव-| |लित्वानुपपत्तेः, तत उक्तमनगारख भावितात्मन इति, केवलिसमुद्घातेन-उक्तखरूपेण समवहतस्य ये चरमाः-चरमसमयभाविनश्चतुर्थसमयमाविन इत्यर्थः, तैरेव सकललोकापूरणात् ,'निर्जरापुद्गला' इति निर्जरागुणयोगात् निर्जरा:-निर्जीर्णा इत्यर्थः ते च ते पुद्गलाश्चेति विशेषणसमासः, किमुक्तं भवति ?-ये लोकापूरणसमये पुद्गला आत्मप्र-8 देशेभ्यो विश्लिष्टाः परित्यक्तकर्मत्वपरिणामा इति, 'सुहुमा णं ते पुरगला' इति णमिति निश्चये नियतमेतत् सूक्ष्माःचक्षुरादीन्द्रियपथमतिकान्तास्ते पुद्गलाः प्रज्ञप्ताः भगवद्भिहें श्रमण हे आयुष्मन् !, गौतमकृतं भगवतः सम्बोधनमेतत् , तथा णमिति निश्चितमेतत् सर्वलोकमपि ते पुद्गलाः स्पृष्टा णमिति वाक्यालङ्कारे तिष्ठन्ति ? इति गौतमेन प्रश्ने कृते भगवानाह-हंता गोयमा' इत्यादि, हन्तेति प्रीती, यदाह शाकटायन:-'हन्तेति सम्प्रदानप्रीतिविषादादि-18 विति, प्रीतिश्चात्र यथावस्थितखरूपप्रतिपादकत्वात् प्रश्नसूत्रस्य साम्मत्यलक्षणा बेदितव्या, न तु हर्षरूपा, क्षीण| मोहत्वेन भगवतो हर्षविषादातीतत्वात् साम्मत्यमेव ख्यापयति, यदुक्तं गौतमेन तदेवानुवदति-'अणगारस्से'त्यादि भावितार्थ । सूक्ष्माः पुद्गला इत्युक्तं, तच्च सूक्ष्मत्वमापेक्षिकमपि भवति यथा बदरादीनामामलकाद्यपेक्षया, ततश्चक्षुरादीन्द्रियगोचरातिकान्तरूपं तत्प्रतिपिपादयिषुरिदमाह-'छउमत्थे णं भंते !' इत्यादि, छमस्थो भदन्त ! मनुष्यः तेपां-अनन्तरोद्दिष्टानां निर्जरापुद्गलानां किञ्चिदिति प्रथमतः सामान्येन प्रयुक्तं जानाति पश्यतीति सम्बध्यते,
हटाएelesedesesegescene
REauratondna
~ 1201~