________________
आगम
(१५)
प्रत
सूत्रांक
[३७]
दीप
अनुक्रम [१६६ ]
Education
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
दारं [-],
उद्देशक: [ - ], मूलं [३७...] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [१]. मुनि दीपरत्नसागरेण संकलित ......
- सुकुमारश्चक्ष्णप्रविरलरोमकुरुविन्दवृत्तजङ्घायुगला निगूढसुबद्धसंधिजानुप्रदेशाः करिकरसमवृत्तोरवः कण्ठीरवसदृशकटीप्रदेशाः शक्रायुधसममध्यभागाः प्रदक्षिणावर्तनाभिमण्डलाः श्रीवत्सलाञ्छित विशालमांसलवक्षःस्थलाः पुरपरिघाऽनुकारिदीर्घबाहवः सुष्टिमणिबन्धा रक्तोत्पलपत्रानुकारिशोणपाणिपादतलाः चतुरङ्गुलप्रमाणसमवृत्तकम्बुग्रीवाः शारदशशाङ्कसौम्यवदनाः छत्राकारशिरसोऽस्फुटितखिग्धकान्तिश्लक्ष्णमूर्द्धजाः कमण्डलु कलशं यूपस्तूप वापी ध्वज पताकी सौवस्तिक यवै मत्स्य मकर 'कूर्म रथेवर स्थलांशुकाष्टापदाश सुप्रतिष्टकं मयूरे श्रीदांमाभिषेक तोरण मे | दिनी जलधि वरभवनादर्श पर्वत गर्जवृषभ सिंहच्छत्र व मिररूपप्रशस्तोत्तमद्वात्रिंशलक्षण धराः । स्त्रियोऽपि सुजातसर्वाङ्गसुन्दर्यः समस्त महेलागुणसमन्विताः संहताङ्गुलिपद्मदलवत्सुकुमारकूर्मसंस्थान मनोहारिचरणा रोमरहितप्रशस्तलक्षणोपे|तजङ्घायुगला निगूढमांस लजानुप्रदेशाः कदलीस्तम्भनिभसंहतसुकुमारपीवरोरुका वदनायामप्रमाण त्रिगुणमांसल विशालजघनधारिण्यः त्रिग्धकान्तिसुविभक्तश्लक्ष्णरोमराजयः प्रदक्षिणावर्ततरङ्गभङ्गुरनाभिमण्डलाः प्रशस्तलक्षणोपेतकुक्षयः संगतपार्श्वाः कनककलशोपमसंहितात्युन्नतवृत्ता कृतिपीवरपयोधराः सुकुमारबाडुलतिकाः सौवस्तिकशङ्खचक्राथाकृतिलेखालङ्कृतपाणिपादतलाः वदनत्रिभागोच्छ्रितमांसल कम्बुग्रीवाः प्रशस्तलक्षणोपेतमांसलहनुविभागा दाडिमपुष्पानुका| रिशोणिमाधरौष्ठा रक्तोत्पलतालुजिह्वा विकसितकुवलय पत्रायतकान्तलोचना आरोपितचापपृष्ठाकृति सुसंगत लतिकाः प्रमाणोपपन्नललाटफलकाः सुस्निग्धकान्तश्लक्ष्णशिरोरुहाः पुरुषेभ्यः किञ्चिदूनोच्छ्रायाः खभावत उदारशृङ्गारचारुषेषाः
For Parts Only
~ 109~