________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३४], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[३२१]
दीप
टवस्यातिविशुद्धत्वात् एवमाहारयन्ति १ तथा सन्त्येकके ये न जानन्ति पूर्ववत् न तु पश्यन्ति तथाविधस्पेन्द्रियपा-15 टवस्थाभावात् २ तथा सन्त्येकके ये न जानन्ति पश्यन्ति पुनस्तद्विषयेन्द्रियपाटवस्य भावात् ३ तथा सन्त्येकके ये
न जानन्ति मिथ्याज्ञानिस्यात् अवधिविकलत्वात् अवधिविषयातीतत्वाद्वा, न च पश्यन्ति तथारूपपाटवाभावात् 18इति, एवं मनुष्याणामपि लोमाहारप्रक्षेपाहारौ प्रतीस चतुर्भझी भावनीया, 'वाणमंतरजोइसिया जहा नेरइया
इति, नैरयिकावधिरिव व्यन्तरज्योतिष्कावधिरपि मनोभक्षित्वेऽप्याहारपुद्गलानामविषयत्वात् , 'वेमाणियाणं पुच्छ'ति, वैमानिकानां पृथक् सूत्रं वक्तव्यं, 'वेमाणिया णं भंते!' जे पोग्गले आहारत्ताए गेण्हंति ते किं जाणंति पासंति आहारेंति उदाहु न जाणंति न पासंति आहारैति' इति, भगवानाह-'गोयमे'त्यादि, माया पूर्वभवकृता विद्यते येषां ते मायिनो, मायया हि यया तया वा बादररूपकृतया कलुषकर्मप्रादुर्भावः, कलुषे च कर्मण्युदयमागते भवप्रका त्ययादप्युपजायमानोऽवधिर्नातिसमीचीनो भवति, एते च सम्यग्दशो न वेदितव्याः, तथा मिथ्या-विपर्यस्ता दृष्टिः|जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्येषां ते मिथ्यादृष्टयः, मायिनश्च मिश्यादृष्टयश्च मायिमिध्यादृष्टयस्ते च ते उपपन्नाश्च मायिमिथ्यादृष्ट-युपपन्नास्त एव खार्थिककप्रत्ययविधानात् मायिमिथ्यादृष्टयुपपन्नकास्ते चोपरितनोपरितनौवेयकपर्यवसाना विज्ञेयाः, तेषां यथायोगमवश्यं मिथ्याष्टित्वस्य मायित्वस्य च भावात्, तद्विपरीता अमायिसम्यग्दृष्टयुपपनकाः, ते चानुत्तरविमानवासिनः, तेपामवश्यं सम्यग्दृष्टित्वं, पूर्वानन्तरभवे नितरां प्रतनुक्रोधमानमायालोभत्वस्यो
अनुक्रम [५८७]
SAVधन
~ 1095~