________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३३], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३१८]
IIचिन्तायामुत्कृष्टपदे यान्यलोके लोकप्रमाणमात्राणि खण्डानि असङ्ख्येयानि तानि परमावधिमपेक्ष्य द्रष्टव्यानि, तस्यै
वैतावद्विषयसम्भवात् , एतत्सामर्थ्यमात्रमुपवयेते, यद्येतावति क्षेत्रे द्रष्टव्यं भवति तर्हि पश्यति यावता तन्न विद्यते । अलोके रूपिद्रव्याणामसम्भवात् , रूपिद्रव्यविषयश्चावधिः, केवलमयं विशेषो-यावदद्यापि परिपूर्ण लोकं पश्यति तावदिह स्कन्धानेव पश्यति, यदा पुनरलोकेऽपि प्रसरमवधिरधिरोहति तदा यथा यथाऽभिवृद्धिमासादयति तथा तथा लोके सूक्ष्मान् सूक्ष्मतरान् स्कन्धान पश्यति यावदन्ते परमाणुमपि, उक्तं च-"सामस्थमेत्तमुत्तं दट्ठवं जह हवेज पेच्छेजा । न उ तं तत्थत्थि जओ सो रूविनिबंधणो भणिओ ॥१॥ वटुंतो पुण बाहिं लोगत्थं चेव पासई दछ । सुहुमयरं सुहुमयरं परमोही जाव परमाणुं ॥२॥" [ सामर्थ्यमात्रमुक्तं द्रष्टव्यं यदि भवेत् प्रेक्षेत नतु तत्तत्रास्ति यतः स रूपिनिबन्धनो भणितः ॥ १ ॥वधेमानः पुनर्वहिलोकस्थमेव पश्यति द्रव्यं । सूक्ष्मतरं सूक्ष्मतरं। परमावधिर्यावत् परमाणु ॥ २॥ ] इत्थंभूतपरमावधिकलितश्च नियमादन्तर्मुहुर्तेन केवलालोकलक्ष्मीमालिङ्गति, यत उक्त-"परमोहीनाणवि केवलमंतोमुहुत्तमेत्तेणं" [ परमावधिज्ञानविदः केवलमन्तर्मुहुर्त्तमात्रेण ] इति, वैमानिकानां यजघन्यपदे अङ्गुलासययभागप्रमाणं क्षेत्रं उक्तं तत्र पर आह-नन्वङ्गुलासङ्खयेयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव न शेपेषु, यत आह भाष्यकृत् खकृतटीकायाम्-"उत्कृष्टो मनुष्येष्वेव नान्येषु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येषु, शेषाणां मध्यम एवेति" तत्कथमिह सर्वजघन्य उक्तः १,
दीप अनुक्रम [५८१]
~ 1085~