________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [३३], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३१७] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३१७]
गाथा
मानुरूपं कियत्कालं स्थित्वा प्रदीप इव सामस्त्येन विध्वंसमुपयाति, अथ हीयमानकप्रतिपातिनोः का प्रतिविशेषः, उच्यते, हीयमानकः पूर्वावस्थातोऽधोऽधो हानिमुपगच्छन्नभिधीयते प्रतिपाती तु निर्मूलमेककालं धंसमुपगच्छन्निति, तथा न प्रतिपाती अप्रतिपाती, यत्केवलज्ञानाद्वा मरणादारतो वा न भ्रंशमुपयातीत्यर्थः, तथा गच्छन्तं पुरुष आ-समन्तादनुगच्छतीत्येवंशीलमानुगामि आनुगाम्येयानुगामिका, खार्थे कः प्रत्ययः, अथवा अनुगमः प्रयोजनं यस्य स आनुगामिकः, लोचनवत् गच्छन्तमनुगच्छति सोऽवधिरानुगामिक इति भावः, तथा न आनुगामिकोऽनानुगामिकः, शृङ्खलाप्रतिबद्धदीप इय यो गच्छन्तं पुरुष नानुगच्छतीति भावः ॥ तदेवमधिकारप्रतिपादनाय द्वारगाथोपन्यता, सम्प्रति 'यथोद्देशं निर्देश' इति न्यायात् प्रथमतो भेदप्रतिपादनार्थमाह-कइविहाणं भंते !' इत्यादि, कति
विधो भदन्त ! अवधिः प्रज्ञासः, सूत्रे खीत्वनिर्देशः प्राकृतत्वात् , भगवानाह-गौतम ! द्विविधोऽवधिः प्रज्ञसः, तद्यNथा-'भवपचइया य खओबसमिया य' भवप्रत्ययकः क्षायोपशमिकश्च, तत्र भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवो-नारकादिजन्म, 'पुनानी'ति अधिकरणे घप्रत्ययः, भव एव प्रत्ययः-कारणं यस्य स भवप्रत्ययः, प्रत्ययशब्दचेह कारणपर्यायः, वर्त्तते च प्रत्ययशब्दः कारणत्वे "प्रत्ययः शपथज्ञानहेतुविश्वासनिश्चये" इति, स एव खार्थिककप्रत्ययविधानात् भवप्रत्ययकः, तथाऽवधिज्ञानावरणीयस्य कर्मण उदयावलिकाप्रविष्टस्यांशस्य वेदनेन योऽपगमः। स क्षयोऽनुदयावस्थस्य विपाकोदयविष्कम्भणमुपशमः क्षयश्च उपशमश्च क्षयोपशमी ताभ्यां निवृत्तः क्षायोपशमिकः,
दीप अनुक्रम [५७९-५८०]
एन्टरटलब्रिट
~ 1081~