________________
आगम
(१५)
प्रत
सूत्रांक
[३१७]
गाथा
दीप
अनुक्रम
[५७९
-५८० ]
प्रज्ञापनाया मलय० वृत्तौ.
॥५३८ ॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [३३],
उद्देशक: [-]
--------------- मूलं [ ३१७] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
भावतोऽनन्तान् पर्यायान् जानाति, प्रतिद्रव्यं जघन्यपदेऽपि चतुर्णां रूपरसगन्धस्पर्शरूपाणां पर्यायाणामवगमात्, 'दो पज्जवे दुगुणिए सचजणे उ पिच्छए ( ओही ) । 'ते उ वन्नाईया चउरो' [ द्वौ पर्यवौ द्विगुणितौ सर्वजघन्यो तु प्रेक्षतेऽवधिः । ते तु वर्णादिकाश्चत्वारः ] इति वचनात् द्रव्याणां चानन्तत्वात्, अत ऊर्ध्वं तु प्रदेशवृद्ध्या समयवृद्ध्या पर्यायवृद्ध्या च प्रवर्द्धमानोऽवधिर्मध्यमो वेदितव्यः, स च तावत् यावत्सर्वोत्कृष्टः परमावधिर्न भवति, सर्वोत्कृष्टः परमावधिर्द्रव्यतः सर्वाणि रूपिद्रव्याणि जानाति, क्षेत्रतोऽलोके लोकमात्राणि खण्डानि, कालतोऽतीतानागताश्वासङ्ख्या उत्सपिण्यवसर्पिणीर्भावतोऽनन्तान् पर्यायान् प्रतिद्रव्यं सङ्ख्येयानामसङ्ख्येयानां च पर्यायाणामवगमात्, 'एगं दवं पेच्छं संधमणुं वा स पज्जवे तस्स । उक्कोसमसंखिजे संखेज्जे पेच्छए कोई ॥ १ ॥ [ एकं द्रव्यं प्रेक्षमाणः स्कन्धमणुं वा स तस्य पर्यवान् । उत्कृष्टतः संख्येयान् असंख्येयान् प्रेक्षते कश्चित् ॥ १॥ ] इति वचनात्, तत्र सर्वजघन्यो मध्यमश्च देशावधिः, सर्वोत्कृष्टस्तु परमावधिः सर्वावधिः । तथाऽवधेः क्षयवृद्धी वक्तव्ये, किमुक्तं भवति । - हीयमानकः प्रवर्द्धमानकश्चावधिर्वक्तव्य इति, तत्र तथाविधसामध्यभावतः पूर्वावस्थातो हानिमुपगच्छन् हीयमानकः, उक्तं च - "हीयमाणयं पुचावत्थातो अहोऽहो हस्समाणं'ति, बर्द्धमानको बहुबहुतरेन्धनप्रक्षेपादिभिर्वर्द्धमानज्वालाकलाप इव पूर्वावस्थातो यथायोगं प्रशस्तप्रशस्ततराध्यवसाय भावतोऽभिवर्द्धमानः, तथा प्रतिपाती अप्रतिपाती चशब्दस्यानुक्तार्थसमुच्चायकत्वादानुगामिकोऽनानुगामिकश्च वक्तव्यः, तत्र प्रतिपतनशीलः प्रतिपाती-य उत्पन्नः सन् क्षयोपश
Education Internationa
For Park Use Only
~ 1080 ~
१३ अन
धिपदं सू.
३१७
॥५३८ ॥